SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ ६६ ॥ Jain Education Inter तिथयः पूरणात् पर्व धर्मोपचयहेतुत्वात्, तत्र - पौषधे पर्वणि उपवासः पौषधोपवासः त्रिविधस्य चतुर्विधस्य वाऽऽहारस्य छेदः इत्यादि, एवमेव श्रीसमवायाङ्गसूत्रवृत्तौ श्री अभयवदेवसूरिभिः व्याख्यानात् ( १९ पत्रे ), तथाहि - "पौषधं पर्वदिनं अष्टम्यादिः तत्रोपवासोऽभक्तार्थः पौषधोपवास इति इयं व्युत्पत्तिरेव, प्रवृत्तिस्तु अस्य शब्दस्य आहारशरीरसत्कारब्रह्मचर्यव्यापार परिवर्जनेषु इति ध्येयमिति” । ननु तर्हि श्रीजिनवल्लभसूरिभिः श्रीपौषधविधिप्रकरणे ( ३५ पत्रे ) कथं पौषधमध्ये भोजनं प्रतिपादितम् ? तथाहि "जो पुण आहारपोसही देसओ सो पुण्णे पञ्चक्खाणे तीरिए अ खमासमणदुगेण मुहपत्तिं पडिलेहिअ खमासमणेण वंदिअ भणइ - इच्छाकारेण संदिसह पारावह पोरिसी पुरिमनुं चउबिहाहार एगासणं निधीय आयंबिलं वा कर्य, जा कावि बेला तीए पारावेमि, तओ सक्कत्थएण चेइए बंदिअ सज्झायं सोलस वीसं वा सिलोगे काउं जहासंभवममितिहिसंविभागं दाउँ मुहं हत्थपाए पडिलेहिअ नवकारपुबमरत्तदुट्ठो भुंजइ”, इति । अत्रोत्तरं यद्यपि अत्र पौषधमध्ये भोजनं उक्तं परं एतदुपधानं आश्रित्य अभ्यधायि, येषां पुनः गच्छे पौषधमध्ये भोजनं अनुज्ञातं तेषां अपि अपवादतः एव न उत्सर्गतः । तथा चोक्तं तपागच्छीय सोमसुन्दरसूरिशिष्य हेम हंसगणिकृतषडावश्यक बालावबोधेऽपि तथाहि " तृतीयशिक्षाव्रतं पौषधोपवासः, स च पर्वतिथिषु अहोरात्रं यावत् चतुर्विधाहारपरित्यागेन, तथा न शक्नोति चेत् तदा त्रिविधाहारपरित्यागेन, एवमपि अशक्तौ अपवादतः आचाम्लादि समुच्चार्य भोजनं क्रियते इत्यादि" न च अपवादपदं उत्सर्गपदे क्षेतव्यं, तस्य षड्भयां भिन्नत्वेन अभिधानात् उपधानविचारस्तु अयम्-उपधानानि श्रीमहानिशीथसूत्रे 132 Personal Use Only पौषधमध्ये उपधानं विना भोजननिषेधाधिकारः २५ ॥ ६६ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy