SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter प्रश्नोत्तरसमुच्चये ( ६२ पत्रे ) तच्छिष्य पं० कीर्तिविजयगणिसमुच्चिते ग्रन्थे पं० वेलऋषिगणिकृतप्रश्नाधिकारे प्रथमप्रनेऽपि प्रोक्तं, तथाहि - " नवक्षणैः कल्पसूत्रं वाच्यते, कैश्चिदधिकैरपि वाच्यते, तदक्षराणि व सन्ति? इति, तत्रोत्तरम् - कल्पसूत्र नवक्षणैः वाच्यते परम्परातः १ अन्तर्वाच्यमध्ये नवक्षणविधानाक्षरसद्भावाच्चेति २ अत्राऽपि नववाचनावाचने गच्छपरम्परा एव, प्रत्युत्तरिता न तदक्षराणि दर्शितानि, अन्तर्वाच्यं तु तत्कृतं आधुनिकं च तत इदं रहस्यं आगतम् - मूलपक्षः कोऽपि नाऽस्ति क्वाऽपि, पश्चात् येषां नववाचनानां गच्छपरम्परा ते नववाचनाभिः वाचयन्तु, अथ च येषां गच्छे नवा|धिकवाचनानां परम्परा ते तदेकादशकं तत्रयोदशकं वा कुर्वन्तु, न कस्याऽपि निन्दा कार्या धर्मार्थिभिः गच्छपरम्पराया व्यवस्थायाश्च स्वरुच्यनुयायित्वात् ॥ २४ ॥ ॥ इति कल्पसूत्रवाचने नववाचनानियमाभावविचारः ॥ २४ ॥ ननु - " करेमि भंते ! पोसहं आहारपोसहं देसओ सबओ च" इत्यादिपाठसद्भावात् पौषधो द्विविधो देशतः सर्वतश्च सर्वत्र प्रतिपादितः, ततो यथा देशतः पौषधोच्चारे श्रावकाः पानीयं पिबन्ति तथा एकाशनादिकरणेन भोजनमपि कथं न कुर्वन्तु ? देशत इति पाठस्य अत्राऽपि भङ्गाभावात्, उच्यते - सत्यं परं उपधानं विना पौषधे त्रिधाहारप्रत्याख्यानस्य चतुधोहारप्रत्याख्यानस्य वा उपवासस्य एव घटमानत्वात् पौषधोपवासरूपशब्दव्याख्यानस्याऽपि श्रीतत्त्वार्थभाष्यवृत्ती ( ९२ पत्रे ) तथैव उक्तत्वाच्च, तथाहि पौषधोपवासो नाम इत्यादिना पौषधस्वरूपं निरूपयति, रूढ्या पौषधशब्दः पर्वसु वर्तते, पर्वाणि च अष्टम्यादि 131 For Private & Personal Use Only w.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy