SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सामाचारीशतकम् । ॥ ६५ ॥ Jain Education inte | जाव वोसरामित्ति लोगस्स उज्जोअगरं चिंतिऊण उस्सारित्ता पुणो लोगस्स उज्जोअगरं कहित्ता सबै साहुणो निसीअंति, जेण कडिओ सो ताहे कालस्स पडिक्कमइ, ताघे वरिसाकाल ठवणा ठविज्जइ, एसो विधि भणियो जइ उ कहिज्जंते गिहत्था अण्णतित्थिआ उसण्णा च आगच्छिजा तो वि ण विज्जा इत्यादि" इति श्रीनिशीथचूण दशमोद्देशके, इत्थमेव श्रीदशाश्रुतस्कन्धचूर्णी अपि, एवमेव श्रीसन्देहविषौषधिवृत्तिप्रान्तेऽपि एतद्भन्धानुसारेण पूर्व पञ्चरात्रं प्रतिक्रमणानन्तरं पाक्षिकसूत्रपाठवत् साधूनां कल्पसूत्रश्रवणं उपलभ्यते, परं अयं विधिः व्यवच्छिन्नः । सांप्रतं तु श्रीवीरनिर्वृतेः नवसु वर्षशतेषु अशीत्यधिकेषु गतेषु आनन्दपुरे पुत्रमरणार्त्तध्रुवसेननृपसन्तोषनिमित्तं सभासमक्षं कल्पो वाचयितुं प्रारब्धः, यदुक्तं श्रीकल्पसूत्रावचूरौ, तथाहि केचित्तु इदं आहुः यत् "इयत्कालातिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्त्तस्य समाधये आनन्दपुरे सभायां अयं ग्रन्थो वाचयितुं प्रारब्ध इति” अन्यत्र तु सर्वसम्मतचिरन्तनग्रन्थेषु कुत्रापि वाचनानियमो न कृतः, पूर्वसूरिभिः प्रत्युत निशीथचूण प्रोक्तमस्ति "ये नववाचनाभिः कल्पं वाचयन्ति ते पार्श्वस्था इति” अत एव ऐदंयुगीना - गीतार्थाः प्रतिगच्छं स्वपरम्परया यथारुचि वाचना विदधानाः सन्ति, न च वाच्यं वयं मूल विध्यनुसारेण पञ्च दिनानि कल्पं वाचयन्तो नववाचनानियमः कुर्वाणाः स्मः, कथं तद्विधिलेशस्याऽपि अभावात् कथं तदनुसारिता ? कथं इत्याह- मूलविधौ । रात्रौ पार्श्वस्थ पार्श्वश्रवणं, सांप्रतं तु दिवसे, पूर्वं तु गृहस्थादीनां असमक्षं, संप्रति तु तत्समक्षं, पूर्व तु एकवारं, अधुना तु | दिवसमध्येऽपि वारद्वयं वाचनं, अथ ये नववाचनातो अधिकवाचनावाचने जिनाज्ञाबाह्यत्वं वदन्ति तेषामपि इदं अज्ञानविजृम्भितं यतोऽत्र सूत्रोक्त विधिविपरीतत्वेन गीतार्थाचरणतो गच्छपरम्परा वर्तते । पुनः श्रीहीरविजयसूरिप्रसादीकृत For Privsonal Use Only कल्पसूत्रस्य नववाचना नियमाभावाधिकारः २४ ॥ ६५ ॥ www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy