________________
BACHCARE
तथाहि-“समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कते सत्तरिएहिं राइदिएहिं सेसेहिं वासावासं पजोसवेई" व्याख्या-'समणे' इत्यादि-वर्षाणां-चतुर्मासप्रमाणस्य वर्षाकालस्य सविंशतिरात्रे-विंशतिदिवसाधिके मासे व्यतिक्रान्ते-पश्वाशदिनेषु अतीतेषु इत्यर्थः, सप्तत्यां च रात्रिदिनेषु शेषेषु भाद्रपदशुक्लपञ्चम्यां इत्यर्थः, वर्षासु आवासो वर्षावासः वर्षावस्थानं, 'पज्जोसवेईत्ति परिवसति सर्वथा वासं करोति, पञ्चाशति प्राक्तनेषु दिवसेषु तथाविधवसत्यभावादिकारणे स्थानान्तरमपि आश्रयति, भाद्रपदशुक्लपञ्चम्यां तु वृक्षमूलादौ अपि निवसतीति हृदयमिति, ततः पञ्चाशता दिनैरेव पर्युषणा कर्तव्या इति सङ्गतिमङ्गति । न च वाच्यं श्रावणभाद्रपदयोः एकतरवृद्धौ एकमासस्य अभिवर्धितस्य अगणनात् वस्तुगत्या पञ्चाशदिनानि एव स्युः इति, यतो विशेषकल्पभाष्यचूर्णौ वर्धितमासस्य अपि गणनाप्रमाणीकृताऽस्ति; तथाहि| "अहिगमासो पडिओ तो वीसइरायं गिहिनायं कजति, किं कारणं इत्थ अहिगमासो चेव गणिज्जति ? सवीसाए ४ समं सवीसतिराओ मासो भणति चेव त्ति", अपि च "समणे भगवं महावीरे वासाणं सवीसइराए मासे वइक्कंते वासावासं
पजोसवेइ ति" कल्पसिद्धान्तोक्तवचनप्रामाण्यात्, आषाढवृद्धौ अपि विंशतिरात्रिपर्युषणायां बोधितायामपि अधिकमासस्य गणनात् सविंशतिरात्रिमासे एव पर्युषणा कर्तव्या इति समागतं, नाऽपि “वासावासं पज्जोसविआणं नो कप्पइ परं पजोसवणाओ निग्गंथाण वा निग्गंथीण वा गोलोमपमाणमित्तेऽपि केसे तं रयणिं उवायणावित्तए" इति कल्पसूत्रे (६८पत्रे ) सामाचारीसूत्रम् अस्य वृत्तिः-तां रजनी भाद्रपदसितपञ्चमीरात्रि नातिक्रमयेत्, पञ्चम्या रात्रेः प्रागेव लोचं
121
Jain Education for
For Prve & Personal Use Only
Plwwjainelibrary.org