SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सामाचा रीशत कम् । ॥ ५८ ॥ Jain Education Inter पुनः सङ्घाचारवृत्तौ तपागच्छीयश्रीधर्म की पाध्यायेनाऽपि "खेलिणक विट्ठे दुगं पुण, अगीयसे हाइयाण संभाव । संभवइ गिहत्थाण वि, कयाइ एगत्तभावंमि ॥ १ ॥ ” इत्युक्तत्वात्, खेलिणकविदुकायोत्सर्गदूषणद्वयं अगीतार्थशिष्याणां लगत् प्रोक्तं, गृहस्थस्य तु एतदूषणद्वयं, कदाचित् एकत्वभावं गतस्य भवदुक्तं परं न सर्वदा, एकत्वभावश्च गृहस्थस्य | एकादशप्रतिमायामेव न अर्वाक् । अत्र इदं रहस्यम्, – कदाचित् यतनानिमित्तं श्राद्धो रजोहरणं विभर्ति तथापि क्रियां कुर्वन् साधुवत् न मुखाग्रादौ रक्षति, यतः श्रीअनुयोगद्वारसूत्रवृत्त्योः (३० पत्रे ) अपि रजोहरणादीनां यथोचितव्यापारनियोगे अर्पितत्वेन युक्तत्वभणनात्, तथाहि " से किं तं लोगुत्तरिअं भावावस्तयं जपणं इमे समणे वा समणी वा सावओ वा साविआ वा तच्चित्ते तम्मणे तल्लसे तदज्झवसिए तत्तिवज्झवसाणे तदट्ठोवउत्ते तदप्पिकरणे तब्भावणाभाविए ( एगमणे अविमाणजिणवयणधम्मरागरत्तमणे ) अण्णत्थ कत्थइ मणं अकरेमाणे उभओकालं आवरसयं करेंति । से तं लोगुत्तरिअं भावावस्तयं", अत्र " तदपिअकरणे” इति पदस्य वृत्तिर्यथा तदर्पितकरणः करणानि तत्साधकतमानि, देह-रजोहरणमुखवस्त्रिकादीनि तस्मिन् आवश्यके यथोचितव्यापारनियोगेन अर्पितानि - नियुक्तानि येन स तथा सम्यक् यथास्थानन्यस्तोपकरण इत्यर्थः । पुनरपि तपागच्छनायक श्रीसोमसुन्दर सूरि-श्रीजयचन्द्रसूरि-श्रीविशालराजसूरि-श्रीरत्नशेखरसूरि - श्रीउदयनन्दसूरिपदकमलसेविना शिष्यहेम हंसगणिना श्राद्धवराभ्यर्थनया कृते श्रीषडावश्यक वालावबोधेऽपि लिखितमस्ति यथा - " श्रावको वन्दनं ददन चलवलकेन प्रमार्जनस्य एव कार्य करोति न तु महात्मवत् मुखाग्रे रक्षति, तथाहि - "वांदणा देतउ श्रावक 116 For Private & Personal Use Only श्रावकाणां चलवलकं नैश्चयिकं न भवति इति अ धिकारः १८ ।। ५८ ।। www.jainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy