________________
Jain Education Inter
-
धरणं नित्यं कार्यमिति नाऽऽगतं, पुनः सामायिकोपकरणमध्येऽपि रजोहरणं भणितं नाऽस्ति । यदुक्तं श्रीअनुयोगद्वारचूण | तथाहि - 'सामाइयकडस्स समणोवासगस्स चउविहे धम्मोवगरणे पण्णत्ते तं जहा - "ठवणार्यंरिअ त्ति मुहतिअ त्ति जवमालिअ त्ति दंडपाउछणं चे ति” पुनः चलवलकेन कायप्रमार्जनमपि निवारितमस्ति, यदुक्तं श्री आवश्यकचूण तथाहि - " गिहिणो काय पमज्जण, चलवलएणं तु जे अकीरंति । इय वृत्तंपि न जुत्तं, जम्हा तं आगमविरुद्धं ॥ १ ॥” अपरं च रजोहरणं यतीनामेव लिङ्गमस्ति, यदुक्तं श्रीउत्तराध्ययन सूत्रवृत्त्योः, तथाहि - "इसिज्ज यं जीविअ वूहिअत्ता", अथाऽस्य वृत्तिः - ऋषिध्वजं मुनिचिह्नं रजोहरणादि । पुनरपि उक्तं - "दुविहे सुस्समण - सुस्तावगे एस गिहिज्जइ लिंगं" । पुनः ओघनिर्युक्तौ - ( २१४ पत्रे ) आयाणे निक्खेवे ठाणनिसीयण तुयट्टसंकोए । पुवं पमज्जणट्ठा लिंगट्ठा चेव रओहरणं ॥ ७१० ॥ इति पाठेनाऽपि रजोहरणं यतिलिङ्गमेव उक्तम् । ननु - "खुरमुंडे लोएण व, रयहरणं उग्गहं च घेत्तूणं । समण-भूओ विहरइ, धम्मं कारण फासंतो ॥ १ ॥" इत्यत्र एकादशप्रतिमायां श्राद्धस्य साक्षात् रजोहरणस्य दृश्यमानत्वात् कथं रजोहरणाभावः ? सत्यं, एकादशप्रतिमापन्नस्य श्राद्धस्य "समणन्भूओ विहरइ" इत्युक्तेन श्रमणतुल्यत्वात्, श्रमणस्य रजोहरणं सर्वेषां संगतमेव, अपि च प्राक्तनदशप्रतिमासु रजोहरणं अनुक्त्वा एकादशप्रतिमायां प्रोक्तं, अत एव विनिश्चीयते श्राद्धानां रजोहरणधरणं दश| प्रतिमासु नैश्चयिकं नाऽस्ति । पुनः श्रीपिण्डनिर्युक्तौ ( ५५ पत्रे ) एकादशप्रतिमायां श्रावकस्य रजोहरणहेतुना लिङ्गप्रवचनाभ्यां साधर्मिकत्वं उत्तमस्ति परं एकादशप्रतिमातो अर्वाक् दशप्रतिमासु श्रावकस्य रजोहरणरूपेण हेतुना लिङ्गेन साधुभिः समं साधर्मिकत्वं नोक्तम् ।
115
For Private & Personal Use Only
www.jainelibrary.org