________________
CASEARCH
ध्ययनाधिकारे (५४४ पत्रे)"काउस्सग्गं तओ कुज्जा" अयं पाठः सामान्यतः कायोत्सर्गाभिधायी अपि टीकाकृता "कायोत्सर्ग-चारित्र १ दर्शन २ श्रुतज्ञान ३ शुद्धिनिमित्तं कायोत्सर्गत्रयलक्षणं जाती एकवचनं, ततो गुरुवन्दनाद् अनन्तरं कुर्याद्" इति व्याख्यातं, एवं अत्राऽपि आवश्यकचूादिषु सामान्यतः सामायिकाभिधानेऽपि अन्यग्रन्थसम्मत्या संप्रदायाच्च तत् त्रयं अवसेयम् । ननु-रात्रिपौषधिकानां शयनावसरे सामायिकदण्डकत्रयं तु साक्षात् दर्शितं तत्सत्यं-परं अन्यत्र
अन्यदा सामायिकग्रहणसमये न तत् त्रित्वं दर्शितं ?, सत्यं, यदि शयनसमयेऽपि तत्रयं अभ्यनुज्ञातं तदा सामायिकत्रतं * उच्चरद्भिः सद्भिः विशेषतः तत् त्रित्वं वाच्यम् । तथा निशीथचूणौँ अपि सामायिकदण्डकत्रयोच्चारणं स्पष्टं उद्दिष्टं अस्ति,
तथाहि-"एवं जहा जायं दायं वामपासे वि अस्स आयरिओ भणइ इमस्स साहुस्स सामाइअस्स आरुहावणं करेमि काउस्सग्गं, अन्ने भणंति उच्चारावणं करेमि काउस्सग्गं', उभयथाऽपि अविरुद्धे “अन्नत्थ ऊससिएणं जाव वोसिरामित्ति, लोगस्स उज्जोयगरे चिंतेता वा नमो अरिहंताणं पढित्ता पच्छा पवावणजेण सेहो सामाइयं तिक्खुत्तो कड्डइ" इत्यादि ॥ । ननु-यदि भवतां गच्छे सामायिकग्रहणाधिकारे वारत्रयं सामायिकदण्डकोच्चारः, तदा भवत्पूर्वजैः श्रीजिनवल्लभसूरिभिः पौषधविधिप्रकरणे । सामायिकोच्चाराधिकारे किमिति वारत्रयं सामायिकदण्डकोच्चारो न प्रतिपादितः ? उच्यते| सत्यं, यद्यपि श्रीजिनवल्लभसूरिभिः आवश्यकवृत्तिचूर्ण्यनुसारेण (३२ पत्रे) "पंचमंगलं कड्डित्ता भणइ करेमि भंते? सामाइयं" इत्यादिपाठः सामान्यतया एव लिखितः, तथापि तेषां अभिप्रायः तच्छिष्य-प्रशिष्यैः एव ज्ञायते न अपरैः, अत एव तत्पट्टपरम्परागतैः श्रीजिनप्रभसूरि १ श्रीजिनपतिसूरि २ श्रीतरुणप्रभसूरिभिः ३ तदभिप्राय जानद्भिः विधिप्रपा १
113
Jain Education inte
For Private & Personal use only
wwjainelibrary.org