________________
प्रथमदिने तृतीयदिनप्रायोग्याणि आयाम-सौवीर-शुद्धविकटानि त्रीणि पानकानि ग्राह्याणि स्युः अष्टमभक्तिकत्वात् , परं न चतुर्थषष्ठप्रायोग्याणि पानकानि, एवं विकृष्टभक्तिकस्याऽपि महामुनेः प्रथमदिने एव उष्णविकटमेव पानीयं उपादेयं स्यात् न उत्स्वेदिमादिकं, असंगतं च एतत् , यतः तृतीयदिनात् उपर्येव तच्छरीरं देवताधिष्ठितं इति, प्रथमद्वितीयतृतीयदिनेषु विकृष्टभक्तिकस्य शेषपानकानां अस्वीकारे भगवदाज्ञाभङ्गः स्यात्, यतो विकृष्टभक्तिकस्य एकं उष्णं विकटमेव |पानकं अनुज्ञातं, यदाह-श्रीभद्रबाहुस्वामी श्रीकल्पसूत्रे साधुसामाचार्या, तथाहि
'विकट्ठभत्तिअस्स भिक्खुस्स कप्पति एगे उसिण वियडे' इति, किं च युगपत् अष्टमप्रत्याख्याने प्रथमदिने चतुर्विधाहारपरिहारिणः अग्रिमदिनद्वये पानकाहारकर्तुः अष्टमप्रत्याख्यातः प्रारदिने कथं प्रत्याख्यानं संगति अङ्गति? । तथा अष्टमप्रत्याख्यानकृत् , उपासकः पाण्मासिकतपश्चिन्तनावसरे आद्यदिने अष्टमं कर्तुं शक्नोमि इति उक्तौ सत्यां, द्वितीयदिने किं तपः कर्तुं शक्नोमि इति ब्रूयात् । एवं तृतीयेऽपि दिने किं ब्रूयात् ? न च वाच्यं दिनत्रयेऽपि अष्टमं कर्तुं शक्नोमि इति वक्तव्यं अनवस्थाप्राप्तेः, कथं तृतीयदिनेऽपि? यदि अष्टमप्रत्याख्यानं करोति तदा पुनः उपवासद्वयं
अग्रेऽपि कर्तव्यं स्यात्, तदकरणे च अष्टमशब्दप्रतिज्ञाभङ्गः स्यात्, तथा अष्टाहिकां कर्तुकामस्य श्राद्धादेः प्रथमदिने है एव अष्टादशभक्तयुगपत्प्रत्याख्याने एकस्य कस्याऽपि कथंचित् उपवासस्य भने अष्टाहिकाया अपि भङ्ग आपद्येत, पुनरपि
केनाऽपि उपवासद्वयं कृतं आसीत् , पश्चात् अकस्मात् तृतीयोपवासः कृतः तस्य अष्टमं कथ्यते न वा ? । अथ यदि सामा० १०६ षष्ठाष्टमादीनां उच्चाररूपता स्यातू, तदा अभकार्थादिवत् तेषामपि आकारयत्वापत्तिः स्यात् न च सा वाऽपि दृष्टा
109
KORBARHAIRAHASTUSTASHA
ए नेपामा कृतः ताहिकाया जा
Jain Education inte
For Private & Personal use only
M
w.jainelibrary.org