________________
Jain Education Inter
प्रतिमावहनं न च वाच्यं व्यवच्छेदे अभ्यासोऽपि न घटां आटीकते, यतो जिनकल्पव्यवच्छेदेऽपि श्री आर्यमहागिरिणा | जिनकल्पाभ्यासो विदधे - जिनकल्पतुलना कृता इत्यर्थः । पुनः एतदर्थसम्मतिं श्रीतिलेकाचार्योऽपि स्वसामाचारी ग्रन्थे प्रोचिवान्, तथाहि - ( ११ पत्रे ) " चतस्र एव च संप्रति प्रतिमाः श्रावकैः उद्यन्ते, शेषास्तु अष्टम्यादिषु सकलरात्रिकायोत्सर्गकरणाशक्तेः नाऽऽचरिताः ", एवं सन्देहदोलावलीवृत्तौ अपि चालनापूर्वकं अयमेव भावो लिखितः । तथाहि -ननुयदि प्रतिमाकरणं अन्तरेणाऽपि प्रव्रज्यासम्यक्त्वं भवति, तदा किं तेन ? इत्यत आह
" जुत्तो पुण एस कमो, ओहेणं संपयं विसेसेणं । जम्हा असुहो कालो, दुरणुचरो संजमो एत्थ ॥ ४९ ॥”
व्याख्या - यस्मात्कारणात् अशुभो - अशुभानुभावः कालो - दुःषमालक्षणो वर्तते, ततश्च दुरनुचरो - दुःखासेव्यः संयमः संयतत्वं अत्र अशुभे काले, अतः प्रव्रजितुकामेन प्रतिमाभ्यासो विधेय इति भावः इति गाथार्थः । इति श्री उपासकप्रतिमाप्रकरणे दशमपञ्चाशके ॥ ६ ॥
॥ इति श्रावकाणां एकादशप्रतिमावहन निषेधाधिकारः ॥ १५ ॥
ननु-श्रीखरतरगच्छे तपादिगच्छवत् एकोपवासकर्तुः चतुर्थं, उपवासद्वयकर्तुः षष्ठः, तत्रयविधायिनः अष्टमं एवं यावत् षोडशोपवासकर्तुः चतुस्त्रिंशत्तमं कथं न कार्यते ? उच्यते- एतादृशप्रत्याख्यानस्य सिद्धान्तादिषु अनुपलम्भनात्, न च वाच्यं “ वासावासं पज्जोसविअस्स चउत्थभत्तिअस्स भिक्खुस्स कप्पंति, तओ पाणगाई पडिगाहित्तए, तं० उस्सेइमं १ वा संसेइमं २ वा, चाउलोदगं ३ वा, तथा वासावासं पज्जोसविअस्स छुट्टभत्तिअस्स भिक्खुस्स कप्पंति, तओ पाणगाई पडि
107
For Priv & Personal Use Only
wlainelibrary.org