________________
सामाचारीशतकम् ।
॥५१॥
धिकारः
श्राद्धानां अपि तदुच्चारणं, साधूनां श्रावकाणां च सामायिकसूत्र १ आलोचनसूत्र २ प्रतिक्रमणसूत्रेषु ३ भिन्नभिन्नपाठेषु तरुणस्त्रिएकपाठताप्रसक्तेः, ततो युक्तिमुक्तत्वेन श्रावकाणां "पाणस्स लेवाडेण वा" इत्यादि पानकागारषट्रोच्चारणं न युक्तिमत् ॥ या मूलम॥ इति श्रावकाणां पानकागारनिषेधाधिकारः ॥ १३॥
तिमापूजा| ननु-तीर्थङ्करप्रतिमा तीर्थङ्करत्वेन अभिहितत्वाद् अभिनुता तत्पूजाविहिता सुखनिःश्रेयसादिहेतुः, सा च श्रीज्ञाता
निषेधाधर्मकथादिषु द्रौपद्यादिभिः कृता दृश्यते, तर्हि कथं श्रीखरतरगच्छे श्राविकाः मूलप्रतिमापूजां न कुर्वन्ति ? उच्यते-युग
१४ प्रधानश्रीजिनदत्तसूरिभिः निषिद्धत्वात् , ननु-तैः सर्वासां बाल-वृद्ध-तरुणस्त्रीणां सा निषिद्धा उत कासांचित् वयोविशेभाषेण? उच्यते-तरुणस्त्रीणामेव, बाल-वृद्ध-स्त्रीणां तु जिनप्रतिमापूजां कुर्वतीनां परम्परया प्रवृत्तेः साक्षात् दृश्यमानत्वात्।
ननु-साऽपि प्रतिमापूजा किं तैः सर्वैः प्रकारैः निषिद्धा? किंवा एकदेशेन ? उच्यते-एकदेशेन एव, तत्कथं? इत्याह-मूलपतिमायाः स्त्रीणां निजकरेण चन्दनादिविलेपनपूजा निषिद्धा, न तु अन्या सुगन्धिधूप १ अक्षत २ कुसुमप्रकर ३ दीप ४ नैवेद्य ५ फल ६ गीत ७ नाट्यादि ८ पूजा, तस्याः प्रत्युत उपदेशात् । ननु-श्रीजिनदत्तसूरिभिः कस्मिन् ग्रन्थे श्राविकाणां मूलप्रतिमापूजा निषिद्धा ? उच्यते-उत्सूत्रपदोद्धट्टनकुलके, तथाहि-"पूएइ मूलपडिमं पि साविया" तदुत्सूत्रं 21 इत्येवं तैः एव स्वकृतचर्चरीग्रन्थेऽपि २४ पद्ये प्रत्यपादि (अपभ्रंशकाव्यत्रयीमध्ये चर्चरीग्रन्थे १४ पत्रे) तथाहि
"जहिं न मलिणलंगिहि जिणवरु पूइयइ, मूलपडिम सुइभूइ वि छिवइ न सावियइ ॥१॥"
॥५१॥
Jain Education in
Kalwwjainelibrary.org