________________
को दोषो गृहस्थानां एकादशप्रतिमाया अर्वाक् भिक्षावृत्तेः अष्टकग्रन्थादौ पौरुषत्रीत्वेन निषिद्धत्वात् । अथ यतिन इव गृहस्था अपि पानकषडागारान् उच्चरिष्यन्ति, तदा गृहस्था अपि यतिन इव उपवासादित्रिविधाहारप्रत्याख्यानमध्ये सौवीरावश्रावणादिपानीयानि अपि पास्यन्ति, न च एषा सौवीरादिपानीयपानप्रवृत्तिः, केषांचिदपि गच्छे दृश्यते । तदपाने च तदपवादागाराणां अपि समुच्चारणे स्पष्टं असंगतिरेव, नहि विशेष्याभावे विशेषणसंभवः, प्रत्युत पानकषडागारोच्चारणं अन्तरेणाऽपि सर्वगच्छेषु सच्चित्तपरिहारिणः श्राद्धाः सन्ध्यायां द्विविधत्रिविधाहारदिवसचरिमप्रत्याख्यानकरणानन्तरं रात्रौ प्रासुकपानीयं पिबन्तो दृश्यन्ते । अपि च यथा दिवसचरिमप्रत्याख्याने अनुच्चारितेषु अपि पानकागारेषु रात्रौ गृहस्थाः || शुद्धोदकं पिबन्ति, तथा अन्येषु अपि दैवसिकप्रत्याख्यानेषु पानकोच्चारं विनाऽपि पानीयं पिबन्तु, का विचारणा ? उभयत्र समानत्वात् , किं च खजूर-तिल-तन्दुलधावना-ऽवश्रावणादीनि पानकानि, यथा रात्रौ गृहिणां अपेयानि तथा दिवा अपि अपेयानि एव, तत्पानस्य धर्म अभिमुखानां अप्रतिपत्तिहेतुत्वेन अप्रतिपन्नधर्माणां, विपरिणामहेतुत्वेन वैधर्मिकाणां, जिनधर्मस्य निन्दाकृती प्रेरकत्वेन च महादोषत्वात् तेन पानकोच्चारणं अनर्थकं एव, आह परः-न तु तद् अनर्थक, यतो यद्यपि फोगरङ्ग-दाडिमछल्यादिभिः प्रासुकीकृतं जलं त्रिविधाहारेण पातुं कल्पते एव, तेषां कषायवृक्षफलछल्लीचूर्णत्वेन अनाहारकत्वात् , तथापि बिभीतकादिना प्रासुकीकृतं न कल्पते एव, तस्य च स्वादिमाहारत्वादिति । तदर्थ पानकागारान् उच्चरन्तु गृहस्थाः इति चेत्न, वस्तुगत्या बिभीतकादेः अपि कटुफलत्वेन अनाहारकत्वात् ,न च वाच्यं पानभङ्गभिया
1olpersonal use only
6
w.jainelibrary.org
Jain Education inte