________________
Jain Education I
“संगरफलिमुग्गमुहट्टमासकंडू अपमुक्खविदलाई । सह गोरसेण न जिमेए य रायत्तिअं न करे ॥ १८ ॥
जम्मि य पीलिज्जते, मणयं पि न नेहनिग्गमो हुज्जा । दुन्निअदलाइ दीसंति मित्थिगोईण जह लोए ॥ १९ ॥ ॥ ३ ॥ एवं श्रीजिनपतिसूरिभिरपि निजसामाचारीग्रन्थे ८ प्रत्यपादि, तथाहि - "संगरं कडूअगोयराइ विदलं" इति ३ ।
ननु - पूर्वाचार्यग्रन्थेऽपि वाऽपि सङ्गरादीनां द्विदलत्वसम्मतिः अस्ति ? उच्यते— यद्यपि साम्प्रतं प्रवर्त्तमाना श्रीसिद्धसेनसूरिकृता श्रीप्रवचनसारोद्धारवृत्तिः तत्र सा नाऽस्ति परं श्रीआनन्दसूरिभिः श्रीप्रवचनसारोद्धारगाथाद्वितीयाद्धं व्याख्यानयद्भिः स्ववृत्तौ तथैवोक्तं, तथाहि
" दहिए विगयगयाई, घोलवडाँ घोलसिहरिणि करंबो । लवणकणदहिअमहिअं संगरगाइम्मि अप्पडिए ॥ १ ॥” व्याख्या-लवणकणैः जीरकलंवणलेशैः युक्तं दधि हस्तेन मथितं वस्त्रेण गालितं तदपि रात्र्युषितं सत् कल्पते, निर्विकृतिकप्रत्याख्यानवतां, क्वाऽपि देशे सङ्गराद्यपि तत्र प्रक्षिप्यते, इत्याशङ्कयाऽऽह, परं सङ्गरादौ अपतिते सति, तत्र तु द्विदलदो पसम्भवात् न कल्पते इत्यर्थः ॥ ४ ॥ एवं यतिदिनचर्यायां अपि तथा हि-" फलियावग्गे तह संगर वल्ला चवला य होला येति ॥ ५ ॥ ननु - सङ्गरादीनां मुद्गादीनामिव द्विदलत्वसाधकं लक्षणमस्ति न वा ? उच्यते-वाढं अस्तीति ब्रूमः, तथा हिन य संगरबीयाओ तिल्लुप्पत्तिं कयाइवि संभवइ । दलिए दुन्नि दलाई मुग्गाईणं च दीसंति ॥ १ ॥ इत्यादि ॥ ६ ॥ पुनः केवलिना दृष्टं सत्यमिति ॥
॥ इति सङ्गरप्रमुखाणां द्विदलत्वाधिकारः ॥ १२ ॥
For P
99.
Personal Use Only
www.jainelibrary.org