SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ THE HIGHESARIAUSN ननु-केचिद्वदन्ति अपक्कदुग्धेन समं द्विदलभक्षणं अभक्ष्यदोपभाक्, तत् किम् ? उच्यते-न चैतत् सङ्गतिमङ्गति, काऽपि तद्दोषस्याऽनुकत्याद् इति, आह परः, उच्यते ननु-भो ! “आमगोरससम्पृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात् तानि विवर्जयेत् ॥७१॥", इति श्रीहेमाचार्यकृतश्रीयोगशास्त्र(१७१ पत्रे )वचनप्रामाण्याद् आमगोरससम्पृक्तद्विदले सूक्ष्मजन्तृत्पत्तिसद्भावेन तद्धजनस्य सुतरां प्रोक्तत्वात् तदुष्टता एव समागता । न च वाच्यं गोरसशब्देन दधितके । परं दुग्धं न ?, उच्यतेश्रीहेमाचार्यैः गोरसशब्देनाऽभिधानचिन्तामणौ (१६७ पत्रे) दधि १ दुग्ध २ घोल ३ रूपार्थत्रयस्य प्रोतत्वात् , तथाहि-"दुग्धं तु सोमज, गोरसः क्षीरमूधस्यं, स्तन्यं पुंसवनं पयः॥ ६८॥ १ तथा ( १६८ पत्रे ) "क्षीरज-दधि गोरसश्च २” पुनः (१६९ पत्रे ) "दण्डाहते कालशेय-धोलारिष्टानि गोरसः रसायनं ३" इति । तत आमगोरFI सेन समं द्विदलभक्षणे स्पष्टं अभक्ष्यदोषः ?, सत्यं, यद्यपि आमगोरसशब्देन अपक्कदुग्धमपि समायातं, परं द्विदलदोषाधि कारे आमगोरसशब्दस्य प्रवृत्तिः अनुत्कालितदधितक्रयोः एव विषये, तयोः द्वयोः एव ग्रन्थादौ व्याख्यातत्वाद्, यदुक्तं "श्रीतपागणसरोजरविश्रीदेवसुन्दरगणेन्द्रविनेयः, श्राद्धवर्गविहिताग्रहतः श्रीसोमसुन्दरगुरुः कुरुतेऽदः॥१॥” इति ग्रन्थादौ सद्भावेन तपागच्छनायकश्रीसोमसुन्दरसूरिभिः श्रीयोगशास्त्रबालावबोधे; तथाहि"आमगोरससंपृक्तं, द्विदलं पुष्पितौदनम् । दध्यहतियातीतं, क्वथितान्नं विवर्जयेत्” ॥ ७॥ 97 ARLICHARAN सामा०९ Jain Education Inten For Private & Personal use only Lijainelibrary.org
SR No.600047
Book TitleSamacharishatakama
Original Sutra AuthorSamaysundar
Author
PublisherJindattsuri Gyanbhandar
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy