SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Jain Education Interli मोहितमतिर्न्यगादीति धनवत्या ॥ ३३ ॥ एतावन्ति दिनानि क स्थितमेषोऽपि कूटमाचष्ट । वस्तुव्यवसायवशाद्दैयग्र्यं नेजिवानस्मि ॥ ३४ ॥ निःपुण्य इव निधानं रतिसुन्दर्याः स दर्शनं लेने । संप्राप्य राजनुवनं कथमपि नाग्यान्युदयवशात् ॥ ३५ ॥ उन्मत्त श्वैतां प्रति धावन् धार्थेन सुष्ठु दुष्टमनाः । विघृतो राजन्यनटैर्बया च विरुम्वयाश्चक्रे ॥ ३६ ॥ रोषारुणेक्षणेन क्षणेन भूमिजुजा समादिष्टम् । उल्लम्बयत बहिर्वटशाखायां स्तेनदेश्यमिमम् ॥ ३७ ॥ तैरपि तथैव चक्रे मृत इति मत्वाऽथ तैः परित्यक्तः । त्रुटितोरुकण्ठपाशः पुण्यवशात्प्राप चैतन्यम् ॥ ३८ ॥ प्रपवाय्य जवादगमयनवत्याः सद्म पद्ममिव मधुकृत् सीचक्रे स तया तत्रागासक्तचित्ततया ॥ ३९ ॥ केवखिनमन्यदाऽऽगतमवेत्य नूपोऽनिवन्दितुमथागात् । पौरैः सहसा सा किल खोलाकोऽप्येष तत्रारं ॥ ४० ॥ ॥ चटुलात्वात् पश्यन् प्रफुल्लदृष्ट्या मुखं नृपतिपत्याः । कणमध्यात्तुषवदसौ राज्ञा निःसारयाञ्चके ॥ ४१ ॥ निर्गन्नथ काशित्कमनीयां कामिनीं स्पृशन् सधवाम् । पत्या शक्त्या प्रहतः पञ्चत्वं प्राप्य पापमनाः ॥ ४२ ॥ रौषध्यानान्नरके तृतीयके नारकः प्रकृष्टायुः । समजनि ततोऽप्यनन्तं जवं मिष्यत्यकृतपुण्यः ॥ ४३ ॥ केवलिना तद्वृत्ते स्पर्शनविषये निवेदिते राज्ञः । वैराग्यादग्राहि क्षितिपेन जिनोदिता दीक्षा ॥ ४४ ॥ कृतकर्मक्षय एष प्राप्तोज्ज्वलकेवलः शिवमवाप । इत्थं चक्षुर्दोषः कस्य न दुःखस्य पोषाय ॥ ४५ ॥ ॥ इति चक्षुर्दोषविषये लोलाक्षकथा ॥ रसनेन्द्रियव्याप्तिस्त्याज्येत्यत्रार्थे काव्यमाह - 353 १ आर जगाम. For Private & Personal Use Only w.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy