SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ १० ॥ Jain Education in प्रेक्ष्य पयःपात्राणि श्रयामधिकाधिकामसौ दधे । पानकविषये विषयेलया विहस्तः दितेः प्रणयी ॥ ए८ ॥ नवनववसनाच्छादनरम्याम्नःपानमाचरन्नृपतिः । सर्वत्राप्येकरसं पयसः समवाप पापमनाः ॥ एए ॥ तस्माद्दिस्मितचेता नेता पृथ्व्याः पृथूलसत्तृष्णः । तामित्याह सुधारससह ग्गिरा (ग्गी) रञ्जयन् हृदयम् ॥ १०० ॥ नानाविधैः पिधानैः स्थानैः किमु निद्यते रसः सुजगे । सर्वत्राप्येकरसं पयः प्रतीतं मया नान्यत् ॥ १०१ ॥ नवदुक्तमिदं सत्यं जानन्नपि देव नैव जानीषे । आलोच्य तत्त्वधिया सुधियामग्रेसर झाप ॥ १०२ ॥ यदि न जवति रसभेदः स्थानैर्विविधैः पिधानकैश्चापि । तत्किमही तव नवनवरमणीरूपे मनो रमते ॥ १०३ ॥ राजन् स्वयमेव वान् विद्वान् किमपीह तदपि ते वच्मि । वेषविशेषैर्वपुषः प्रविजासन्ते स्त्रियः प्रशस्यतराः ॥ १०४ ॥ करस्यापि स्फुरति कथञ्चिदिन्निता किमहो । प्रायः शरीरजाजां परमेतन्मोह विस्फुरितम् ॥ १०५ ॥ सर्वाप्येकरसा वशाः सुरूपास्तथाप्यतिविरूपाः । नृप निर्विचारता ते न चारुतामञ्चति नितान्तम् ॥ १०६ ॥ सर्वेऽपि मोहवशगाः सत्त्वास्तत्त्वावबोधमुग्धधियः । विषयव्याकुलिततया शुभाशुभं नो विदन्त्येते ॥ १०७ ॥ नवनवरूपाः सुन्दरवेषास्तोषावहा जने योषाः । बहिरागम्बर एष सर्वोऽपि मतिभ्रमं कुरुते ॥ १०८ ॥ जलधिर्जलस्य पूरैर्न वेन्धनैरपि धनैर्यथा वह्निः । न हि तघत्कामसुखैरसुनाजस्तृप्तिमुपयान्ति ॥ १०९ ॥ को नहि मुह्यति जन्तुस्तारुण्ये रूपसंपदाकीर्णे । ऐश्वर्येऽप्यतिवर्ये विषयेष्व (ति) सरसरूपेषु ॥ ११० ॥ १ व्याकुल:. 20 For Private & Personal Use Only सप्ततिका. ॥ १० ॥ ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy