SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१३७॥ मञ्जुसौरजः । सुरजिः कोकिलोदारमधुरारवमखुलः ॥ ३२ ॥ युग्मम् ॥ ईदृग्विधे मधौ प्राप्ते तच्चेतश्चखतामधात् । पत्रवचपत्रस्य रागोदयमहाशुगात् ॥ ३३ ॥ अहो मोहोदयः पापस्थलयत्यखिलं जगत् । तत्पुरः कस्य चातुर्यमनिवार्य परिस्फुरत् ॥ ३४ ॥ तादृग्विधविरागेण यः प्रव्रज्यामुपाददे । सोऽपि चेचखति ध्यानाद्विग्धिग्दुष्कर्मचेष्टितम् ॥ ३५ ॥ अथवा कस्य नोन्मादजननं यौवनं स्मृतम् । मद्यपानमिवोदामकामसंजीवनोद्यतम् ॥ ३६ ॥ मोहवासनया नूनमनया कुनयाध्वनि । प्रेर्यन्तं प्राणिनः सर्वे विज्ञा अज्ञानिका अपि ॥ ३७ ॥ धर्मश्रद्धा पटली प्रखीना क्षणमात्रतः । विषया * शामहावात्यावशतस्तन्मनोऽम्बरात् ॥ ३८ ॥ सर्वः समुपदेशोऽस्य जगाल हिमपिएमवत् । स्मरव्यापमहातापप्रसरोरुदिबाकरात् ॥ ३५ ॥ गता त्रपा नृपातङ्कादिव तस्करसन्ततिः । ननाश हरिणीवाशु मर्यादोन्मादसिंहतः ॥ ४० ॥ सर्वः कुलाभिमानोऽस्य मीनवन्निर्जलाश्रयात् । प्रयातवान् परासुत्वमहो दुष्कर्मचेष्टितम् ॥ ४१ ॥ ततो निःसंगतोन्मुक्तमनसाऽनेन चिन्तितम् । पर्याप्तं व्रतकष्टेनानिष्टेनारिष्टकारिणा ॥ ४२ ॥ श्रयिष्येऽहं निजं राज्यं साम्राज्यं यत्र चानुतम् । शब्दादिविषयग्रामान निरामानरं रमे ॥ ४३ ॥ चारकक्षिप्तवश्चित्ते दधानः संयमारतिम् । यतः परीषहोदग्रसुभटैर्महसोत्कटैः ॥४४॥ साधुवर्गमनापृञ्चय प्रचन्नः स्तेनवजात् । निर्गत्य गजवत्त्य कशृङ्खखश्वलितोंऽहसा ॥ ४५ ॥ जन्यलिङ्गं वहन्नङ्गे समागात् पुष्करी किणीम् । तस्थौ तद्वहिरुद्याने ग्खानेष्ठः संयमोपरि ॥ ४६ ॥ तरुणैररुणैः पर्णैः कोमलैः किसखैस्तरोः । विरच्य स्रस्तरं स्वैरं लुलोठ निजलीखया ॥ ४७ ॥ विमुच्य वृक्षशाखायां निजं धर्मध्वजादि सः । आजुहाव नराधीशं निःशङ्कः पापकमणि ॥ ४८ ॥ उद्यानपालकाज्ज्ञात्वा तदागममचिन्तितम् । चिन्तयामास चित्ते राट् कथमेकाकिताssहता ॥ ४० ॥ Jain Education International 274 For Private & Personal Use Only सप्ततिका. ॥१३७॥ w.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy