________________
*
%
XACTERTAKAMANAMk
ताविवक्षया नमस्कारदेशोऽनमस्कारोवा, देशसर्वनिषेधपरत्वानोशब्दस्य, नोअनमस्कारोऽपि अनमस्कारदेशो वा नमस्कारो
वा, एपा चतुर्विधा प्ररूपणा । अर्थतेषु भङ्गेषु मध्ये को नयः कान् भङ्गका निच्छतीति निरूप्यते, तत्र शब्दादयस्त्रयः शब्दनयाः सम्पूर्णमेव प्रदेशरहितमखण्डं वस्त्वभ्युपगच्छन्तीति तन्मतेन दावेव भङ्गो-नमस्कारोऽनमस्कार इति. नैगमादयस्तु चत्वारो नया देशप्रदेशानपि वस्तुनोऽभ्युपगच्छन्तीति तन्मतापेक्षया चत्वारोऽपि भङ्गाः, तदेवं प्रागुक्का पञ्चविधा प्ररूपणा इयं चतुर्विघेति सङ्कलने प्रकारान्तरेण नवविधा प्ररूपणा प्रतिपादिता द्रष्टव्या, गतं प्ररूपणाद्वारम् । इदानी 'वत्थु तरहंताई पंच भवे तेसिमो हेऊ' इति गाथाशकलोपन्यस्तं वस्तुद्वारमवसरप्राप्तं विस्तरतो व्याख्यायते, तचानन्तरोक्कं गाथाशकलं प्रागेव व्याख्यातं, नवरं तत्र यदुक्तं 'तेषां वस्तुत्वे अयं हेतु' रिति स इदानीं हेतुरुच्यते, तत्रेयं गाथा
मग्गो अविप्पणासो आयारे विणयया सहायत्तं । पंचविहनमुक्कारं करेमि एएहिं हेऊहिं ॥९०३॥ है मार्गः अविप्रणाश आचारः विनयता सहायत्वं यथाक्रममदादीनां नमस्कारार्हत्वे इमे हेतवः, तथा चाह-पञ्चविधनमस्कार करोम्येतर्हेतुमिरिति ॥ इयमत्र भावना-अहतां नमस्कारार्हत्वे मार्गः-सम्यग्दर्शनादिलक्षणो हेतुः, तथाहि-असौ मार्गो भगवद्भिरेव प्रदर्शितः तस्माच्च मुक्तिपदावाप्तिः ततः परम्परया मुक्तिहेतुत्वान्नमस्कारार्हास्ते इति, सिद्धानां नमस्कारार्हत्वेऽविप्रणाशः-शाश्वतत्वं हेतुः, यतस्तदविप्रणाशमवगम्य प्राणिनः संसारवैमुख्येन मोक्षाय घटन्ते, तथा आचार्याणां नमस्का
राहत्वे आचारो हेतुः, तथाहि-तानाचारयत आचारस्यापकांश्च प्राप्य प्राणिन आचारपरिज्ञानानुष्ठाननिमित्तं यतन्ते, उपामाध्यायानां तु नमस्काराहवे विनयो हेतुः, यतस्तान स्वयं विनीतान प्राप्य कर्मविनयसामर्थ्य विनयवन्तो भवन्ति देहिनः,
A%E0%0-%A4%95-%
Jain Education International
For Private & Personal use only
___www.jainelibrary.org