SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ मा. सु. ८३ Jain Education Internat क्षायिकौपशमिकयोरप्येके वदन्ति, तत्र क्षायिके यथा श्रेणिकस्य, औपशमिके श्रेण्यन्तर्गतानामिति, इह यद्यपि 'प्रदेशक्रमेण निर्देश' इति भागद्वारव्याख्यानानन्तरं भावद्वारव्याख्यानमुचितं तथापि 'विचित्रा सूत्रगति'रिति न कश्चिद्दोषः ॥ सम्प्रति भागद्वारं व्याचिख्यासुराह जीवाणऽणत भागो पडिवन्नो सेसना अनंतमुणा । जीवानामनन्ततमो भागो नमस्कारस्य प्रतिपन्नः प्राप्यते, शेषास्तु नमस्कारमप्रतिपन्ना मिथ्यादृष्टयोऽनन्तगुणाः, गतं भागद्वारम् । अल्पबहुत्वद्वारम् - यथा पीठिकायां मतिज्ञानस्य तथा भावनीयं ॥ तदेवं कृता नवपदप्ररूपणा, सम्प्रति चशदाक्षिष्ठां पञ्चविधप्ररूपणामभिधाय पश्चिमार्धेन वस्तुद्वारं निरूपयति- बत्युं अरहंताई पंच भवे तेसिमो हेऊ ॥ ९०९ ॥ वस्तु दलिकं द्रव्यं योग्यमर्हमित्यनर्थान्तरं तत्र वस्तु - नमस्कारस्य योग्यमर्हदादयः पञ्च भवन्ति तेषां व वस्तुत्वे-नमस्कारा ईत्वेऽयं वक्ष्यमाणलक्षणो हेतुः ॥ साम्प्रतं चशब्दसूचितां पञ्चविधां प्ररूपणां प्रतिपिपादयिषुराह . आरोवणा य भयणा पुच्छण तह दावणा य निजवणा । आरोपणा भजना पृच्छा 'दायण'चि दर्शना दापना वा निर्यापना च तत्र किं जीव एव नमस्कारः ? आहोश्विनमस्कारो वा जीव ? इत्येवं यत्परस्परमवधारणाऽऽरोपणं पर्यनुयोगरूपमेषा आरोपणा, उक्तं च- " किं जीवो होज्ज नमो ? नमो व जीवोत्ति ? जं परोप्परतो । अज्झारोवणमेसो पजणुजोगो मयाऽऽरुवणा ॥१॥" अत्र जीव एव नमस्कार इति प्रख For Private & Personal Use Only 65 w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy