________________
श्रीआवइयकमलयगिरिय
वृत्तौ नमस्कारे
॥ ४९२ ॥
Jain Education International
पणादयः
चिन्तायां तु पञ्चसु चतुर्दशभागेषु द्रष्टव्यम्, तथाहि - नमस्कारवान् जीव ऊर्ध्वमनुत्तरसुरेषु गच्छन् लोकस्य सप्तमु ५ सत्पदप्ररूचतुर्दशभागेषु भवति, अधस्तु षष्ठपृथिव्यां गच्छन् लोकस्य पंचसु चतुर्दशभागेष्विति । 'फुसणावि एमेव'त्ति, एवमेव स्पर्शनाऽपि वक्तव्या, नवरं स्पर्शनाचिन्तायां पर्यन्तवर्त्तिनोऽपि प्रदेशान् स्पृशतीति क्षेत्रात् स्पर्शनाया भेदेनाभिधानं ॥ सम्प्रति कालद्वारप्रतिपादनार्थमह
एगं पडुच हिट्ठा तहेव नाणाजियाण सङ्घद्धा ।
एकं नमस्कारवन्तं जीवं प्रतीत्य यथैवाधस्तात् 'उवओग पडुच्चंतोमुहुत्त लद्धीउ होइ उ जहण्णा' इत्यादिना काल उक्तः तथैवेहापि वक्तव्यः, नानाजीवानां पुनर्नमस्कारचिन्तायां सर्वाद्धा सर्वः कालः, लोकेऽस्याऽऽकालमविच्छेदेन भावात् । गतं कालद्वारम् अधुनाऽन्तरद्वारं भावद्वारं वाह
अंतर पडुचमेगं जहन्नमंतोमुहुत्तं तु ॥ ८९९ ॥
'उक्कोसेणं चेवं अद्धापरियहओ य देसुणो । नाणाजीवे नत्थि उ भावे य भवे स्वओवसमे ॥ ९०० ॥ नमस्कारात् परिभ्रष्टस्य पुनर्नमस्कारलाभे यदपान्तरालं तत् एकं जीवं प्रतीत्य जघन्यतोऽन्तर्मुहूर्त्तम्, उत्कर्षतस्त्वेतदेव दर्शयति- 'अद्धा परियदृतो उ देसूणों' अर्धः पुदगलपरावर्त्तो देशोनः प्राप्तभावनमस्कारस्योत्कर्षतोऽप्येतावन्मात्रसंसारभावात्, नानाजीवान् प्रति पुनर्नास्त्यन्तरं, न खलु स कश्चनापि कालोऽस्ति यत्र सर्वथा न कस्यापि लोके नमस्कारसंभव इति, द्वारम् । भावे तु विचार्यमाणे नमस्कारो भवेत् क्षायोपशमिके, एतच्च प्राचुर्यमङ्गीकृत्योक्तम्, अन्यथा
For Private & Personal Use Only
॥ ४९२ ॥
www.jainelibrary.org