________________
CAREE
सम्मत ८ नाण ९सण १. संजय ११ उवओगओ १२ य आहारे १३॥
मासग १४ परित्त १५ पजत्त १६ मुहुम १७ सन्नी य १८ भव १९ चरिमे २०॥ ८९७॥ सत्पदस्य-विद्यमानार्थस्य नमस्कारलक्षणस्य, सूत्रे च द्वितीया पयः वेदितव्या प्राकृतत्वात्, पूर्वप्रतिपन्नान् प्रतिपद्यमानकांश्चाश्रित्य मार्गणा-अन्वेषणा कर्त्तव्या, क्वेत्याह-गतिषु चतसृष्वपि, तद्यथा-नमस्कारः किमस्ति किं वा नास्तीति, तत्रास्तीति ब्रूमः, तथाहि-चतुष्पकारायामपि गतौ नमस्कारस्य पूर्वप्रतिपन्ना नियमतः, प्रतिपद्यमानकास्तु विवक्षितकाले भाज्याः, कदाचिद् भवन्ति कदाचिन्नेति, एवमिन्द्रियादिषु चरमान्तेषु द्वारेषु यथा पीठिकायां मतिज्ञानस्य सत्पदप्ररूपणा कृता तथा नमस्कारस्यापि कर्त्तव्या, तयोरभिन्नस्वामिकत्वेनैकवक्तव्यत्वात् ॥ तदेवं गतं सत्पदप्ररूपणाद्वारम्, अधुना द्रव्यप्रमाणक्षेत्रस्पर्शनारूपं द्वारत्रयमभिधित्सुराह
पलियासंखिजइमो पडिवन्नो होज खित्त लोअस्स । सत्तसु चउदसभागेसु हुन्न फुसणावि एमेव ॥८९८॥ ___ इह नमस्कारस्य प्रतिपद्यमानकाः कदाचिद्भवन्ति कदाचिन्न, यदापि भवंति तदापि जघन्यत एको द्वौ वा, उत्कर्षतः सूक्ष्मक्षेत्रपल्योपमस्य असङ्ख्येयभागे यावन्त आकाशप्रदेशास्तावत्प्रमाणाः, 'पलियमसंखेजइमो पडिवन्नोत्ति पल्योपमस्य-सूक्ष्मक्षेत्रपल्योपमस्य असङ्ख्येयो भागः, पूर्वप्रतिपन्नाः जघन्यतः सूक्ष्मक्षेत्रपल्योपमासडूख्येयभागप्रदेशप्रमाणाः, उत्कर्षतोऽप्येतावत्प्रमाणा एव, नवरं जघन्यपदादुत्कृष्टपदमधिकमवसातव्यमिति द्वारम् ॥ क्षेत्रद्वारमाह-'खेत्त लोगस्सेत्यादि, क्षेत्रमधिकृत्य चिन्तायां लोकस्य सप्तसु चतुर्दशभागेषु भवेन्नमस्कारः, इयमूर्धलोकमधिकृत्य चिन्ता, अधोलोक-!
KORRECORRRROCA%ARAM
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org