________________
CBSARKARISACRACK
वाहकेष्वेकस्मिन् वाहने शिबिकादौ तदा जीवेष्वजीवे च यदा बहुषु पुरुषेषु वाहकेषु बहुषु च वाहनाङ्गेषु तदा जीवेष्वजीवेषु | च आह-पूज्यस्य नमस्कार इति नैगमव्यवहारौ, स एव च किमित्याधारो न भवति येन पृथगिष्यते ?, उच्यते, नाव-16 श्यं यत् यस्य सम्बन्धि तस्य स एवाधारः, अन्यथापि दर्शनात् , यथा देवदत्तस्य धान्यं क्षेत्रे, ततोत्रापि पृथगाधार इत्यष्टभङ्गी, तुशब्दात् शेषनयाक्षेपः, स विनेयजनानुग्रहाय सवेपतो दय॑ते, तत्र सङ्ग्रहनयः सामान्यमात्रग्राहितया स्वपर-| जीवेतरविशेषणरहित इति नमस्कारमाधारमात्रे अविशिष्टे इच्छति, आह च-"सामन्नमत्तगाही सपरजिएयरविसेसनिर-16 वेक्खो। संगहनओऽभिमन्नइ आहारे तमविसिट्ठमि ॥१॥" अपरस्तु जीवधर्मो नमस्कार इति जीवे एवाधारे, नाजीवे इति प्रतिपन्नः, यदिवाऽन्योऽन्यत्र वर्चते इति व्यधिकरणं सङ्ग्रहनयो मूलत एव नाभ्युपगच्छतीति तन्मते नाधिकरण-18 चिन्ता, ऋजुसूत्रस्तु ज्ञानं शब्दः क्रिया वा नमस्कार इति प्रतिपन्नवान् , ज्ञानादयश्च जीवादनन्य इति जीव एव मन्यते | नमस्कार, नान्यत्र, ननु ऋजुसूत्रोऽन्यमप्याधारमिच्छत्येव 'आकाशे वसतीति वचनात् , सत्यमेतत् , केवलं द्रव्यविवक्षा-101 यां न गुणविवक्षायामित्यदोषः, शब्दादयस्तु ज्ञानरूपमेव नमस्कारमिष्टवन्तः, न शब्दक्रियारूपं, अतो ज्ञानरूपे जीवे एवेच्छति, नान्यत्र, गतं कस्मिन्निति द्वारम् । अधुना कियचिरमसौ भवतीति निरूपयन्नाहउवओग पहुंचंतोमुत्त लद्धीइ होइ उ जहन्नो। उक्कोस हिई छावट्टि सागर (बार) अरिहाइ पंचविहो (द्वारं३) ८ । इह नमस्कारस्य कालचिन्ता द्विधा-उपयोगतो लब्धितश्च, तत्रोपयोगं प्रतीत्य स्थितिजघन्यत उत्तपतश्चान्तर्मुत्तमेव, पालद्धीए' इत्यादि, लब्धेस्तु तदावरणक्षयरमाया जघन्यतः स्थितिः अन्तर्महमेव, उत्कर्षतः षट्पष्टिसागरोपमाणि, साति-1
Jain Education International
For Private & Personal use only
___www.jainelibrary.org