SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ धर्म्मधम्मिंणामभेदमात्रमेवेच्छति, न भेदं ततः कस्यासौ नमस्कार इति स्वामित्वचिन्तेव तन्मतेन नोपपद्यते, केवलं नम|स्कारक्रियानिष्पादको जीवो, जीवाजीवानां च भेद इति, जीवो नमस्कार इति सर्वदैव तदभिप्रायेण तुल्याधिकरणता, अशुद्धतरो वा कश्चित् सङ्ग्रहो नमस्कारं सम्बन्धितयाऽभिमन्यमानो जीवस्येति प्रतिपद्यते, नाजीवस्य नापि जीवानामित्यादि, आह च - "जीवो नमोत्ति तुल्लाहिगरणयं वेइ नउ स जीवस्स । इच्छर वाऽसुद्धयरो तं जीवस्सेव नऽन्नस्स ॥ १ ॥” ऋजुसूत्रमतं तु नमस्कारस्य ज्ञानक्रियाशब्दरूपत्वात् तेषां च कर्तुरनर्थान्तरत्वात् कर्तृस्वामिक एव नमस्कारो, न पूज्यस्वामिकः, आह च - "उज्जुसुयमयं नाणं सद्दो किरिया व जं नमोकारो । होज नहि सङ्घहा सो जुत्तो तक्कत्तुरन्नस्स ॥ १ ॥” | शब्दादिनयाः प्राहुः- ज्ञानमेव नमस्कारो, न शब्दक्रिये, व्यभिचारात्, तथाहि शब्द क्रियाविरहेऽपि भवति नमस्कारोपयोगमात्रादिष्टफलसिद्धिः, न तदभावे शब्दक्रियासद्भावेऽपीति, ततस्तन्मतेनोपयुक्तस्य कर्त्तुरेव नमस्कारो, न बाह्यस्य, | आह च- "जं नाणं चैव नमो सद्दाईणं न सद्दकिरियातो । तेण विसेसेण तयं वज्झस्स न तेऽणुमन्नंति ॥ १॥” कस्येतिद्वारं गतम्, अधुना केनेति द्वारमुच्यते - केन साधनेन साध्यते नमस्कारः ?, तत्रेयं गाधा | Jain Education International नाणावरणिजस्त य दंसणमोहस्स तह खओवसमे । जीवमजीवे अट्ठसु भंगेसु अ होइ सवत्थ ॥ ८९३ ।। ज्ञानावरणीयस्येति सामान्योक्तावपि मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीस्य चेति द्रष्टव्यं नमस्कारस्य मतिश्रुतज्ञानान्तर्गतत्वात् ज्ञानं च सम्यग्दर्शनमृते न भवति, तत आह- 'दर्शनमोहस्य' दर्शनमोहनीयस्य च यः क्षयोपशमस्तेन साध्यते नमस्कारः, तद्वशादवाप्यते नमस्कार इति भावः, तस्य च आवरणस्य द्विविधानि स्पर्द्धकानि भवन्ति - सर्वोपघातीनि For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy