________________
हत्य इति किमुक्तं भवति ?-द्रव्यभावसङ्कोचलक्षणां भगवतामहतां पूजां करोमि, द्रव्यभावसङ्कोचनविषये च भङ्गचतुष्टयं, द्रव्यसङ्कोचनं न भावसङ्कोचनमित्येको भङ्गो, यथा पालकस्य, भावसकोचनं न द्रव्यसङ्कोचनमिति द्वितीयो, यथाऽनुत्तरविमानवासिनां देवानां, द्रव्यभावयोः सङ्कोचनमिति तृतीयो यथा शांबस्य, ने द्रव्यसङ्कोचनं न भावसङ्कोचनमिति शून्यो भङ्गः, इह भावसङ्कोचनं प्रधानं, द्रव्यसङ्कोचनं तु तदुद्धिनिमित्तं प्रधानं, केवलं तु विफलमेव ।। गतं पदार्थद्वारम्, अधुना प्ररूपणाद्वारप्रतिपादनार्थमाहदुविहा परूवणा छप्पया य नवहा य छप्पया इणमो। किं कस्स केण व कहिं केवचिरं कइविहो अभवे ॥८९१॥
द्विविधा-द्विप्रकारा प्ररूपणा-वर्णना, द्वैविध्यमेव दर्शयति-पट्पदा च नवधा-नवप्रकारा, नवपदेति तात्पर्यार्थः, चशशब्दात् पञ्चपदा च, तत्र षट्पदा इणमो-इयं, किं कस्याः केन वा क वा कियच्चिरं कतिविधो वा भवेन्नमस्कारः। ॥ तत्र। किंद्वारप्रतिपादनार्थमाहकिं?, जीवो तप्परिणओ (१) पुवपडिवन्नओ उ जीवाणं। जीवस्स व जीवाण व पडुच्च पडिबजमाणंव (तु) ॥८९२॥
किंशब्दः क्षेपप्रश्ननपुंसकव्याकरणेषु, तत्रेह प्रश्श्रे, अयं च प्राकृतेऽलिङ्गः, सर्वादिः, नपुंसकनिर्देशः, सर्वलिङ्गैः सह यथायोगमभिसम्बध्यते, किं सामायिक ? को नमस्कारः, तत्र नेगमादिनयानामविशुद्धानां मतमधिकृत्याजीवादिव्युदासेनाह-जीवो, नाजीवः, स च सहनयापेक्षया मा भूदविशिष्टः स्कन्धः, स्कन्धो नाम सर्वास्तिकायसवातः, यदाहुस्तन्मतावलम्बिनः-"पुरुष एवेदं ग्निं सर्व यद्भूतं यच्च भाव्यं उतामृतत्वस्येशानो यदन्नेनातिरोहति" इत्यादि, तथा तनयवि-12
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org