________________
श्रीआव
श्यकमल
यगिरिय
वृत्ती नमस्कारे
॥ ४८६ ॥
Jain Education Interna
एतच्च प्रागेव 'नैगमस्सऽणुप्पन्नो' इत्यत्र चर्चितम् 'उज्जुसुय पढमवचं ति ऋजुसूत्रः प्रथमवज्रं समुत्थानाख्यकारणशून्यं शेषं कारणद्वयमेवेच्छति, समुत्थानस्य व्यभिचारित्वात् तद्भावेऽपि वाचनालव्धिशून्यस्यात्सम्भवात्, 'सेस नया लद्धिमिच्छन्तीति शेषनयाः शब्दादयस्ते लब्धिमेवैकं कारणमिच्छन्ति, वाचनाया अपि व्यभिचारित्वात्, तथाहि -सत्यामपि वाचनायां नोपजायते लब्धिरहितस्य गुरुकर्म्मणोऽभव्यस्य वा नमस्कारः, सत्यां तु लब्धाववश्यमुपजायते, ततोऽ| न्वयव्यतिरेकाव्यभिचारात्सैवैका कारणमिति, गतमुत्पत्तिद्वारम् । इदानीं निक्षेपः स चतुर्थी, तद्यथा-नामनमस्कारः स्थापनानमस्कारो द्रव्यनमस्कारो भावनमस्कारश्च तत्र नामस्थापने सुगमे, द्रव्यनमस्कारोऽप्यागमतो नोआगमतश्च, | तत्रागमतो ज्ञशरीरद्रव्यनमस्कारो भव्यशरीरद्रव्यनमस्कारो ज्ञशरीर भव्यशरीरव्यतिरिक्तद्रव्यनमस्कारश्च ॥ सम्प्रति ज्ञशरीरभव्यशरीरद्रव्यनमस्कारप्रतिपादनार्थमाह
निहाइ दव भावोवउत्त जं कुछ सम्मदिट्ठीओ ।
निहृवानाम्, आदिशब्दात् बोटिकानामाजीविकानां यदिवा द्रव्यनिमित्तं यो मंत्रदेवताराधनादौ नमस्कारः स द्रव्य नमस्कारः, तत्र द्रव्यनमस्कारे उदाहरणम् - वसंतउरे नगरे जियसत्तू राया, धारणी देवी, सो अन्नया देवीए सहितो ओलोयाट्ठितो दमगं पास, अणुकंपा दोण्हवि जाया, देवी भणइ नदिसरिसा रायाणो, भरियाई भरंति, रण्णा आणावितो, | कयालंकारो दिन्नवत्थो तेहिं उवणीतो, सो य कच्छूए गहितल्लतो ओलग्गाविजइ, कालंतरेण राइणा से रज्जं दिन्नं, | पेच्छइ दंडभडभोइए देवताययणपूयातो करेमाणे, सो चिंतेइ-अहं कस्स करेमि ?, रण्णो आययणं करोमि, तेण देवउलं
For Private & Personal Use Only
निक्षेणः
॥४८६ ॥
www.jainelibrary.org