SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ MAXOCTOCKICKALAMA ताणामुत्पन्न इति !, नैष दोषः, तस्य सर्वसनाहिनैगम एवान्तर्भावविवक्षणात् । 'जह कत्तोत्ति यदि उत्पन्नस्तहि कुत इत्याशाह-'तिविहसामित्ता' इति, त्रिविधं च तत् स्वामित्वं च त्रिविधस्वामित्वं तस्मात् त्रिविधस्वामित्वात् , त्रिविधस्वामिभावात् १त्रिविधकारणादित्यर्थः, आह च-एवमप्येकत्रैकदा परस्परविरुद्धधर्माध्यासदोषस्तदवस्थ एव, तदयुक्तम्, अशेषस्यापि वस्तु नस्तत्त्वतः सामान्यविशेषात्मकत्वाभ्युपगमे नमस्कारस्यापि सामान्यविशेषात्मकत्वात् , तत्र च सामान्यधर्मः सत्त्वादिमिरनुत्पादात् विशेषधम्मैरानुपूर्व्यादिभिरुत्पादादिति॥साप्रतं यदुक्तं 'त्रिविधस्वामित्वादिति तत् त्रिविधस्वामित्वमुपदर्शयति समुहाणवायणालद्धिओ य पढमे नयत्तिए तिविहं । उज्जुसुअ पढमवजं सेसनया लद्धिमिच्छति ॥८८९॥ . समुत्थानतो वाचनातो लब्धितश्च नमस्कारः, समुत्पद्यते इति वाक्यशेषः, तत्र सम्यक् सङ्गतं प्रशस्तं वा उत्थानं यस्मात् तत् समुत्थानं, किं तदिति चेत्, उच्यते, अन्यस्याश्रुतत्वात् तदाधारतया प्रत्यासन्नत्वात् शरीरमत्र परिगृह्यते शरीरं हि नमस्कारकारणं, तद्भावे भावसम्भवात् , ततः समुत्थानतः, तथा वाचनं वाचना-परतः श्रवणमधिगम उपदेश ४ इत्यनान्तरं, सा च नमस्कारकारणं, तद्भावभावित्वादेव च, ततो वाचनातः, तथा लब्धिः -तदावरणकर्मक्षयोपशमल क्षणा साऽपि कारणं तद्भावभावित्वादेव, ततो लब्धितः, चशब्दः पदत्रयान्तप्रयुक्तो नयापेक्षया त्रयाणामपि प्राधान्यख्याहपनार्थः, अत एवाह-'पढमे नयत्तिए तिविहं' प्रथमे नयत्रिके त्रिविधं, अशुद्धनगमसङ्घहव्यवहाराख्ये विचार्ये समुत्था*नादिकं त्रिविधमपि नमस्कारकारणं, आह-प्रथमे नयत्रिकेऽशुद्धनगमसङ्ग्रहो कथं त्रिविधं कारणमिच्छतः?, तयोः सामा न्यमात्रावलम्बित्वात् , नैष दोषः, अशुद्धनैगमसङ्घहयोर्नयत्रिकग्रहणेनाग्रहणात्, तन्मतेन नमस्कारस्योत्पत्तरेवाभावात्, CONSC+CRECRCLEARCH Jain Education International For Private & Personal Use Only www.iainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy