________________
आ. सु.८०
Jain Education Interna
णीयं वस्तु प्रति आख्यानं - गुरुसाक्षिकनिवृत्तिकथनं ८, एते अष्टौ सामायिकपर्यायाः । अथ सामायिकपर्यायाणामभिधानं किमर्थं १, उच्यते, असम्मोहप्रतिपत्त्यर्थम्, तथाहि - यथा चन्द्रः शशी निशाकरो रजनीकर उडुपतिरित्येवमादिषु चन्द्रपर्या|येषु आदित्यः सविता भास्करो दिनकर इत्येवमादिषु सूर्यपर्यायेष्वभिहितेषु चन्द्रसूर्यपर्यायाऽभिज्ञस्य सत एकस्मिन् शशिपर्याये केनाप्युक्ते समस्तसूर्यपर्यायव्युदासेन चन्द्रपर्यायेषु यदिवा सूर्यपर्याये एकस्मिन् केनाप्युक्ते समस्तचन्द्रपर्यायपरित्यागेन समेषु सूर्यपर्यायेषु सम्प्रत्ययो भवति नतु मुह्यति, एवं चतुर्णामपि सामायिकानां पृथक् पर्यायेष्वभिहितेषु तदभिज्ञस्य सत एकस्य सामायिकस्यैकस्मिन् पर्यायेऽमिहिते शेषसामायिकपर्यायव्युदासेन विवक्षितसामायिकपर्यायेषु सर्वेषु प्रत्ययो भवति, न तु मोहं यातीति ॥ साम्प्रतं सर्वविरतिसामायिकपर्यायार्थानामष्टानामप्यनुष्ठादन् यथासङ्ख्यमष्टावेव दृष्टा - न्तभूतान् महात्मनः प्रतिपादयन्नाह -
दमदंते १ मेअजे २ कालगपुच्छा ३ चिलाय ४ अत्तेअ ५ । . धम्मरुइ ६ इला ७ तेयलि ८ सामइए अड्डदाहरणा ॥। ८६५ ।।
सामायिके-सर्वविरसिसामायिकेऽष्टानामपि पर्यायार्थानां यथाक्रमममन्यष्टावुदाहरणानि, तद्यथा-सामायिकशब्दार्थानुष्ठाने दमदन्तो महर्षिः, समयिकशब्दार्थानुष्ठाने मेतार्यः, सम्यग्वादशब्दार्थानुष्ठाने कालकाचार्यपृच्छा, समासशब्दार्थानुष्ठाने चिलातिसुतः, सङ्क्षेपशब्दार्थानुष्ठाने आत्रेयः, अयं चोपलक्षणं कपिलादीनां अनवद्यशब्दार्थानुष्ठाने धर्मरुचिः,
For Private & Personal Use Only
ainelibrary.org