________________
श्रीआवश्यकमल
य० वृत्ती उपोद्घाते
॥ ४७४ ॥
Jain Education Inter
सम्यक्त्वा
तासंवृतम्, अत्रोत्तरपदलोपो यथा भीमसेनो भीम इत्यत्र, तथा बालव्यवहारयोगात् बालं पण्डितव्यवहारयोगात् पण्डितं, वालं च तत् पण्डितं च बालपण्डितं, तथा देशः-स्थूलप्राणातिपातादिः एकदेशो वृक्षच्छेदनादिस्तयोर्विरतिः- विरमणं यस्यां दिनिरुक्तिः निवृत्तौ सा देशैकदेशविरतिः, तथा गरीयान् साधुधर्म्मः, सकलपापनिवृत्त्यात्मकत्वात्, तदपेक्षयाऽणुः- अल्पो धर्मो देशविरतिलक्षणः अणुधर्म्मः, तथा न गच्छन्तीत्यगा-वृक्षास्तैः कृतमा समन्तात् राजते इत्यागारं गृहं तत्र स्थितानां धम्म - गारधर्म्मः, मयूरव्यंसकादित्त्वात् मध्यमपदलोपी समासः ॥ सम्प्रति सर्वविरतिसामायिकनिरुक्तिप्रदर्शनार्थमाह
सामाइअं समइअं सम्मावाओ समास संखेवो । अणवज्जं च परिन्ना पचक्खाणे अ ते अड्ड । ८६४ ।। समो - रागद्वेषयोरपान्तरालवर्त्ती मध्यस्थः, इणू गतौ, अयनं अयो, गमनमित्यर्थः, समस्य अयः समायः - समीभूतस्य सतो मोक्षाध्वनि प्रवृत्तिः, समाय एव सामायिकं, विनयादेराकृतिगणत्वात् 'विनयादिभ्य' इति स्वार्थिक इकण् प्रत्ययः, एकान्तोपशान्तगमनमिति भावः १, 'समयिक' मिति सम्यक्शब्दार्थे समित्युपसर्गः, सम्यक् अयः समयः - सम्यग्दयापूर्वकं | जीवेषु प्रवर्त्तनं, समयोऽस्यास्तीति 'अतोऽनेकस्वरादिति मत्वर्थीय इकप्रत्ययः २, तथा सम्यग् - रागद्वेषपरिहारेण वदनं वादः सम्यग्वादः, रागादिपरित्यागेन यथावद्वदनमित्यर्थः ३, तथा 'असू क्षेपणे' असनं आसः, क्षेप इत्यर्थः, सम्शब्दः प्रशंसार्थः, शोभनमसनं समासः, संसाराद्वहिर्जीवस्य जीवात् कर्म्मणो वा क्षेपणं ४ तथा संक्षेपणं सङ्क्षेपः- स्तोकाक्षरं महाथं च सामायिकं तत्र स्तोकाक्षरं कतिपयाक्षरात्मकत्वात् महार्थं द्वादशाङ्ग पिण्डार्थत्वात् ५, 'अणवज्जं चे 'ति अवद्यं पापं | नास्त्यवद्यमस्मिन्नित्यनवद्यं सामायिकं ६, तथा परि-समन्तात् पापपरित्यागेन ज्ञानं परिज्ञा सामायिकं ७, तथा परिहर
For Private & Personal Use Only
॥ ४७४ ॥
•w.jainelibrary.org