SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ** ***** ************* स्तन चतुर्विधस्थापि सामायिकस्य क्रियाकारकभेदपर्यायैः शब्दार्थकथनरूपं निर्वचनं निरुक्तिः, तत्र सम्यक्त्वसामायिकनिरुक्किममिषित्सुराह सम्मद्दिट्ठी अमोहो सोही संभावदंसणं बोही। अविवजओ सुदिद्वित्ति एवमाई निरुत्ताई॥ ८६१॥ है। सम्यगिति प्रशंसायां, सम्यक्-प्रशस्ता मोक्षाविरोधित्वात् दृष्टिः-दर्शनम्, अर्थानां जीवादीनामिति गम्यते, सम्यग् दृष्टिः १ तथा मोहनं मोहो-वितथग्रहः न मोहोऽमोहः अवितथग्रहः २ शोधनं शुद्धिः मिथ्यात्वमलापगमात, तत्त्वार्थश्रद्धानरूपं सम्यग्दर्शनं ३ तथा सत्-जिनाभिहितं प्रवचनं तस्य भावो-यथावस्थितं स्वरूपं सद्भावस्तस्य दर्शनम्-उपलम्भः सद्भावदर्शनं ४ बोधनं बोधिः-परमार्थावगमः ५ अतथा अतस्मिन् तदध्यवसायो विपर्ययः, न विपर्ययः अविपर्ययः, तत्त्वाध्यवसाय इति भावः ६ तथा सुशब्दःप्रशंसायां, शोभना दृष्टिः सुदृष्टिः, एवमादीनि सम्यग्दर्शनस्य निरुक्तानि-क्रियाकारकभेदैः पर्यायाः॥ सम्प्रति श्रुतसामायिकनिरुक्तिप्रदर्शनार्थमाहअक्सर सन्नी सम्म साइयं खलु सपज्जवसिअंच । गमियं अंगपविटुं सत्तवि एए सपडिवक्खा ॥८६२॥ इयं च पीठिकायामेव व्याख्यातेति भूयो न व्याख्यायते ॥ देशविरतिसामायिकनिरुक्तिप्रतिपादनायाह- . विरयाविरई संवुडमसंवुडे बालपंडिए चेव । देसिकदेसविरई अणुधम्मोऽगारधम्मो अ॥ ८६३ ॥ विरमणं विरतं, भावे क्तप्रत्ययः, न विरतिः अविरतिः, विरतेन युक्ता अविरतिविरताविरतिः, तथा संवृताः-स्थगिताः, परित्यक्ता इत्यर्थः, असंगता-अपरित्यक्ताः, संवृताश्च असंवृताश्च संवृतासंवृताः सावधयोगा यस्मिन् सामायिके तत् संवृ SEARSAALACHER: Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy