________________
श्रीभावश्यकमल
य० वृत्ती उपोद्घाते
॥ ४७३ ॥
सप्त चतुर्द्दशभागान् स्पृशति, 'सत्त ये' त्यत्र चशब्दस्यानुकसमुच्चयार्थत्वादधः च चतुर्दशभागान् श्रुतज्ञानी स्पृशतीति प्रतिपत्तव्यं, तथाहि - सम्यग्दृष्टिः श्रुतज्ञानी पूर्व नरकेषु बद्धायुष्कः षष्ठपृथिव्यां तमःप्रभायामिलिकागत्या समुत्पद्यमानः पञ्च चतुर्द्दशभागान् लोकस्य स्पृशतीति, देशविरतस्त्वच्युत देवलोके समुत्पद्यमानः पञ्च लोकस्य चतुर्द्दशभागान् स्पृशतीति प्रतिपत्तव्यम्, अधस्तु देशविरतो 'घण्टलाला' न्यायेनापि परिणाममपरित्यजन्नोत्पद्यते, ततोऽधोभागेषु न चिन्तितः, आह च चूर्णिकृत् - "देसविरतो हेट्ठा न उववज्जइ तेण पंच, उवरिं अच्चुयं जावत्ति भणिय” मिति ॥ तदेवं क्षेत्रमधिकृत्य स्पर्शना प्रोक्ता, अथ भागस्पर्शना वक्तव्या, किं सामायिकं श्रुतादि कियद्भिर्जीवैः स्पष्टं, प्राप्तपूर्वमिति भावः, इत्येतदुपदर्शयन्नाह
Jain Education International
सङ्घजीवेहिं सुअं सम्मचरित्ताई सवसिद्धेहिं । भागेहिं असंखिजेहिं फासिया देसविरईओ ॥ ८६० ॥ सर्वजीवैः सांव्यवहारिकराश्यन्तर्गतैः श्रुतं -सामान्येनाक्षरात्मकं श्रुतं स्पृष्टं, द्वीन्द्रियादिभावस्य तैः सर्वैरप्यनन्तशः स्पृष्टत्वात् तत्र च सामान्य श्रुतसद्भावात्, सम्यक्त्वचारित्रे सर्वसिद्धैः स्पृष्टे, तदनुभवमन्तरेण सिद्धत्वायोगात्, भागैरसङ्ख्येयैः स्पृष्टा देशंविरतिः, इयमत्र भावना - सर्वसिद्धानामसङ्ख्येया भागा बुद्ध्या क्रियते, तत्रैकमसङ्ख्येयं भागं मुक्त्वा शेषैः सर्वैरप्यसङ्ख्येयेर्भागैर्देश विरतिः स्पृष्टा, एकेन त्वसङ्ख्येयेन भागेन न स्पृष्टा, यथा मरुदेव्या भगवत्या, उक्तं च चूण- असंखेजेहिं भागेहिं देसविरतिं काउं पच्छा चारित्तं पडिवजित्ता सिद्धी पत्ता, जे पुण सुद्धाई चेव सम्मत्तचरित्ताई फासेऊण मोक्खं गया ते देसविरतिसिद्धाणमसंखेज्जइभागो" इति ॥ गतं स्पर्शनाद्धारम्, इदानीं निरुक्तिद्वारम्,
For Private & Personal Use Only
क्षेत्रस्पर्शना भाग
स्पर्शना च
॥ ४७३ ॥
www.jainelibrary.org