________________
Jain Education International
निरवशेषं - प्रतिप्रदेशव्याप्या, समस्तमप्यसङ्ख्यात प्रदेशात्मकं एते च केवलिसमुद्घातावस्थायां केवलिनः प्रत्येतव्याः, जघन्यतस्त्वसङ्ख्येयभागं स्पृशन्तीति स्वयमेव द्रष्टव्यम्, एकजीवस्य लोकासङ्ख्येयभागेऽवस्थानात्, तथा 'सत्त य चोदसे' त्यादि श्रुतसामायिकसहिताः सप्त चतुर्द्दशभागान् स्पृशन्ति, देशविरत्या सहिताः पञ्च चतुर्द्दशभागान्, इयमत्र भावना-इह लोकश्चतुर्दशभागः क्रियते, तद्यथा-सप्त भागा अधः सप्त भागा उपरि तत्र रत्नप्रभाया उपरितलादारभ्य यावत् तस्या अधोऽवकाशान्तरमेतावत्प्रमाणः प्रथमो भागः, ततः शर्कराप्रभाया उपरितलादारभ्य यावदधस्तस्या अवकाशान्तरमेतावान् द्वितीयो भागः, एवं शेषास्वपि पृथिवीषु भावनीयम् एषोऽधः सप्तभागानां विधिः, उपरितनसप्तभागानामयं विधिः- रत्नप्रभाया उपरितलादारभ्य यावत् सौधर्म्मः कल्पः एष प्रथमो भागः, सौधर्मकल्पस्योपरितलात् परतो यावन्महेन्द्रकल्प एष द्वितीयः, माहेन्द्रकल्पविमानानामुपरि यावत् ब्रह्मलोकलान्तकपर्यन्तस्तावान् तृतीयः, ततः परो महाशुक्रसहस्रारपर्यन्तश्चतुर्थः, ततः परं यावदच्युतकल्पः एष पञ्चमः, ततः परो ग्रैवेयकपर्यन्तः षष्ठः, ततो लोकान्तः सप्तमः, उक्तं च चूर्णो - "लोगो चउद्दसभागे कीरइ, हेट्ठा उवरिंपि सत्त सत्त चेव, कहं ?, रयणप्पभातो आरम्भ जाव से उवासंतरं एवं सवं पढमो भागो, एवं सेसासुवि पुढवीसु, एते अहे सत्त भागा, उवरिं इमो भागविही- रयणप्पभाए उवरिमतलातो आरद्धं जाब सोहम्मो कप्पो एस पढमो भागो, सोहम्मगाणं विमाणाणं उवरिं आरद्धं जाव सणकुमारमाहिंदा एस बिइतो, एवं ततिओ जाव बंभलोगलंतगा, चउत्थो जाव महासुक्क सहस्सारा, पंचमो आणयाई चउरो कप्पा, छट्टा गेवेज्जा, सेसा जाव लोगंतो सत्तमो "ति, तत्र सम्यक्त्वचरणसहितः प्रकृष्टतपस्वी श्रुतज्ञानोपेतो यदाऽनुत्तरसुरेष्विलिकागत्या समुत्पद्यते तदा लोकस्य
For Private & Personal Use Only
www.jainelibrary.org