SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीआव- सर्वविरतेस्त्वेकभवे शतपृथक्त्वमाकर्षाणामुत्कर्षतः, पृथक्त्वमिति द्विप्रभृतेरानवभ्यः, एवमेते उत्कर्षत एकभविका आकर्षा सम्यक्त्वाश्यकमल- भवन्ति ज्ञातव्याः, जघन्यतस्तु चतुर्णामप्येक एवैकस्मिन् भवे, उक्तं च चूणा-"सुयसामाइयं एगभवे जहन्नेणं एक्कसि दिषु भवाय. वृत्ती आगरिसेइ, उक्कोसेणं सहस्सपुहुत्तं वारा, एवं संमत्तस्सऽवि देसविरतीए य, सबविरतिं पुण जहन्नेण एक्कसि उक्कोसेणं सयपु-18 कर्षों उपोद्घाते है हुत्तं वारा” इति । सम्प्रति (तान् ) नानाभवगतान् प्रतिपादयति तिण्ह सहस्सपसंखा सहसपुहुत्तं च होइ विरईए । नाणभवे आगरिसा एवइआ हुँति नायवा ॥ ८५८ ॥ ॥४७॥ त्रयाणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां नानाभवेष्वाकर्षाणामुत्कर्षतो भवन्त्यसङ्ख्येयानि सहस्राणि, यतस्त्र-13 है याणामप्येकस्मिन् भवे सहस्रपृथक्त्वमाकर्षाणामुक्त, भवाश्च क्षेत्रपल्योपमासङ्ख्येयभागगतनभःप्रदेशतुल्याः, 'संमत्तदेसविरया पलियस्सासंखभागमेत्ताओ' इति वचनात् , ततः सहस्रपृथक्त्वं तैर्गुणितं असङ्ख्येयानि सहस्राणि भवन्ति, सहस्रपृथक्त्वं नानाभवेष्वाकर्षाणामुत्कर्षतो भवति विरतेः-सर्वविरतेः, तस्या हि खल्वेकभवे शतपृथक्त्वमाकर्षाणामुक्तं, भवा-18 श्चाष्टौ, ततः शतपृथक्त्वमष्टभिर्गुणितं सहस्रपृथक्त्वं भवति, एतावन्तो नानाभवेष्वाकर्षा भवन्ति ज्ञातव्याः, अन्ये पठन्ति'दोण्ह सहस्समसंखा' इति, तत्रापि श्रुतसामायिकं सम्यक्त्वसामायिकनान्तरीयकत्वादनुक्कमपि प्रतिपत्तव्यं, सामान्य श्रुतस्य त्वक्षरात्मकस्य नानाभवेष्वाकर्षा अनन्तगुणाः॥ गतमाकर्षद्वारं, सम्प्रति स्पर्शद्वारमाह ॥४७२॥ सम्मत्तचरणसहिआ सवं लोगं फुसे निरवसेसं। सत्त य चउदसभागे पंच य सुअदेसविरईए ॥८५९॥ 'सम्यक्त्वचरणसहिताः' सम्यक्त्वचरणयुक्ताःप्राणिन उत्कर्षतः सर्व लोकं स्पृशंति, किं तर्हि व्याप्तिमात्रेण ?, नेत्याह Jain Education Int ! For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy