________________
धारणार्यः, ततः परमवश्यं क्वचित्प्रतिपद्यते, जघन्यतस्त्वेकः समयः, विरताविरते:-देशविरतेरुत्कृष्टः प्रतिपत्तिविरहकालो द्वादशकम्-अहोरात्राणि द्वादश, जघन्यतस्तु त्रयः समयाः, उक्तं च चूर्णी-"विरताविरतीए जहन्नेणं तइओ समओ, उक्कोसेणं बारस अहोरत्ता" इति, 'विरतेः' सर्वविरतेरुत्कर्षतः प्रतिपत्तिविरहकालः पञ्चदशकमहोरात्राणां, जघन्यतस्तु समयत्रयं॥द्वारम्॥साम्प्रतं भवद्वारं वक्तव्यम् , तत्र कियतो भवानेको जीवः किं सामायिकं लभते इति प्रतिपादयन्नाहसम्मत्तदेसविरया पलिअस्स असंखभागमित्ताओ। अट्ट भवा उ चरित्ते अणंतकालं च सुअसमए ॥८५६॥
सम्यक्त्ववन्तो देशविरतिमन्तश्च स्वं स्वं सामायिकं पल्योपमासङ्ख्येयभागमात्रान् भवान् यावत् लभन्ते, इयमत्र भावना-सम्यक्त्वसामायिकं देशविरतिसामायिकं च प्रत्येकं जघन्यत एकं भवम् उत्कर्षतः क्षेत्रपल्योपमस्यासङ्ख्येयतमे भागे यावन्तो नभःप्रदेशास्तावतो भवान् यावदेको जीवः प्रतिपद्यते, नवरं सम्यक्त्वभवासख्येयकाद्देशविरतिभवासड्ख्येयक लघुतरं द्रष्टव्यमिति, चारित्रे विचार्ये उत्कर्षतो भवा-आदानभवा अष्टौ, ततो नियमतः सिक्ष्यति, जघन्यतस्त्वेको भवः, 'अणंतकालं च सुयसमए' इति अनन्तकालम्-अनन्तभवरूपं यावत् श्रुतसमये-सामान्यश्रुतसामायिके प्रतिपन्ना भवंति उत्कर्पतो, जघन्यतस्त्वेकं भवं, यथा मरुदेवीति । गतं भवद्वारम् , अधुना आकर्षद्वारमाह
तिण्ह सहस्सपुहुत्तं सयप्पुहुत्तं च होइ विरईए। एगभवे आगरिसा एवइआ हंति नायबा ॥८५७॥
आकर्षणमाकर्षः, प्रथमतया मुक्तस्य वा ग्रहणमित्यर्थः, ते च द्विधा-एकभविका नानाभविकाश्च, तत्र प्रथमत एकमविका उच्यन्ते-'त्रयाणां' सम्यक्त्वश्रुतदेशविरतिसामायिकानामेकभवे सहस्रपृथक्त्वमाकर्षाणामुत्कर्षतो भवति, विरते:
*CREAAAAACAKALCHAR
Jain Education International
For Private & Personal use only
www.jainelibrary.org