SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमलयवृत्ती उपोद्घाते ॥४७१॥ A-KA-MASTRORISES अर्द्धः-अपार्द्धः पुद्गलपरावत्तों देशोनः उत्कृष्टमन्तरं सम्यक्त्वादिसामायिकानां त्रयाणां भवति, केषामित्याह-आशात-दसम्यक्त्वानाबहलानां, उक्तं च-"तित्थयर पवयण सुयं आयरियं गणहरं महिद्धीयं । आसायंतो वहुसो अणंतसंसारिओ होइ॥१॥" दिषु अवि. पुद्गलपरावर्तस्वरूपंपंचसङ्ग्रहट्टीकातोवेदितव्यं, तत्र सविस्तरमभिधानात् ॥ गतमन्तरद्वारम्, अभिधातव्यं कियन्तं कालम- हारहविरही विरहेण एको व्यादयो वा सामायिक प्रतिपद्यन्ते इति ?, तत्राह! सम्मसुभगारीणं आवलिअअसंखभागमित्ताओ। अट्ट समया चरित्ते सधेसिं जहन्न दो समया ॥८५४॥ सम्यक्त्वश्रुतागारिणां-सम्यक्त्वश्रुतदेशविरतिसामायिकानां नैरन्तर्येण एकैकस्मिन् यादिषु वा प्रतिपद्यमानेषु आव#लिकाया असख्येयभागमात्राः समयाः प्रतिपत्तिकालः, किमुक्तं भवति -सर्वस्मिन्नपि लोके सम्यक्त्वसामायिकश्रुतसा मायिकदेशविरतिसामायिकानामुत्कर्षत आवलिकाया असङ्ख्येयभागवर्तिनः समयान् यावदविरहितमेकैको यादयो वा प्रतिपत्तारः प्राप्यन्ते, ततः परं त्रयाणामपि प्रतिपत्तेरुपरमादवश्यं विरहकालो भवति, तथा चारित्रे निरन्तरं प्रतिपत्तिकालोऽष्टौ समयाः, ततः परमवश्यं विरहः, जघन्यतस्तु सर्वेष्वपि सामायिकेष्वविरहेण प्रतिपत्तिकालो द्वौ समयौ ॥ इह विरहकालो द्वारगाथायामनुद्दिष्टोऽपि अविरहकालस्य प्रतिपक्षभूतत्वात् सूचितो द्रष्टव्यः, ततः सम्प्रति सम्यक्त्वादिप्रतिपत्तिविरहकालमानमाह ॥४७१॥ सुअसम्म सत्तगं खलु विरयाविरईइ होइ बारसगं । विरईइ पन्नरसगं विरहिअकालो अहोरत्तो ॥ ८५५॥ सम्यक्त्वश्रुतयोः सर्वस्मिन्नपि लोके प्रतिपत्तिविरहकाल उत्कर्षतः 'सत्तग'मिति अहोरात्राणां सप्तकमेव, खलुशब्दोऽव समयाः प्रतिपावरतिसामायिकानां नरन्तयारते सधेसि जहन्न दोस Jain Education intense For Private & Personal use only a nd.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy