SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ श्रीआवश्यकमल य० वृत्तौ उपोद्घाते ॥ ४७० ॥ Jain Education inter!! जघन्यतस्त्वेको द्वौ वा, 'सहस्सग्गसो विरती' इति सहस्रशो विरतिमधिकृत्य उत्कर्षतः प्रतिपत्तारो, ज्ञेया इत्यध्याहारः, जघन्यतस्त्वेको द्वौ वेति ॥ सम्प्रति प्राक्प्रतिपन्नान् प्रतिपतितांश्च प्रतिपादयन्नाह - सम्मत्तदेस विरया पडिवन्ना संपई असंखिज्जा। संखिज्जा य चरिते तीसुवि पडिआ अणंतगुणा ।। ८५१ ॥ 'सम्यक्त्वदेशविरताः सम्यग्दृष्टयो देशविरताश्च 'प्रतिपन्नाः' प्राक्प्रतिपन्नाः 'सम्प्रति' विवक्षिते वर्त्तमानसमये उत्कर्षतो जघन्यतश्चासङ्ख्येयाः, प्राप्यन्ते इति शेषः, किन्तु जघन्यपदादुत्कृष्टपदे विशेषाधिकाः, एते च प्रत्येकं प्रतिपद्यमानकेभ्योऽसङ्ख्येयगुणाः, 'संखेज्जा य चरिते' इति चरित्रे प्राक्प्रतिपन्नाः सङ्ख्येयाः, एतेऽपि स्वस्थाने प्रतिपद्यमानकेभ्यः संख्येयगुणाः, उक्तंच - "सट्टाणे सट्ठाणे पुवपवन्ना पवज्रमाणेहिं । होंति असंखेज्जगुणा संखेज्जगुणा चरित्तस्स ॥ १ ॥” (वि. २११५ ) 'तीसुवि पडिया अणंतगुणा' इति पूर्वप्रतिपन्नेभ्यश्च चरणप्रतिपतिता अनन्तगुणाः, तेभ्यो देश विरतिप्रतिपतिता असङ्ख्येयगुणाः, तेभ्योऽपि सम्यक्त्वप्रतिपतिता असङ्ख्येयगुणाः, त्रिभ्योऽपि - चरणदेश सम्यक्त्वेभ्यः एतानेव चरणादिगुणान् प्राप्य ये प्रतिपतिताः ते अनन्तगुणाः तत्र सम्यग्दृष्ट्यादिभ्यः प्रतिपद्यमान केभ्यः, आह च भाष्यकृत् - "चरणपडिया अणंता तदसंखगुणा य देसविरईतो । संमादसंखगुणिया ततो सुयातो अनंतगुणा ॥ १ ॥ ” ( वि. २७७२ ) ॥ तदेवमत्र श्रुतवर्जसामायिकत्रयस्य पूर्वप्रतिपन्नाः प्रतिपतिताश्चोताः, अथ श्रुतस्य तानाहसुअपडिवन्ना संपइ पयरस्स असंखभागमित्ताओ। सेसा संसारत्था सुअपरिवडिआ हु ते सच्चे ॥ ८५२ ॥ सम्यग्मिथ्यारूपस्य सामान्येनाक्षरात्मकस्य श्रुतस्य ये पूर्वप्रतिपन्नास्ते सम्प्रति वर्त्तमानसमये प्रतरस्यासङ्ख्येयभाग For Private & Personal Use Only सम्यक्तवा दिप्रतिपद्य मानादयः ॥ ४७० ॥ www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy