SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ |धिकवर्षाष्टकोना पूर्वकोटीतियावत्, जघन्यतस्त्वाद्यसामायिकत्रयस्य स्थितिरन्तर्मुहत्तं, सर्वविरतिसामायिकस्य एकः समयः, चारित्रपरिणामारम्भसमयानन्तरमेव कस्याप्यायुष्कक्षयसम्भवात्, देशविरतिप्रतिपत्तिपरिणामस्त्वान्तर्मौहूर्तिक एव, द्विविधत्रिविधादिभङ्गबहुलप्राणातिपातादिनिवृत्तिरूपत्वात्, ( सर्वविरतिश्रवणपूर्वकं आसक्त्यशक्तिमानेन ग्रहणपरिणामात् ग्रहणाच्च तस्याः) सर्वजीवापेक्षया तु सर्वाणि सर्वदा ॥ द्वारम् ॥ सम्प्रति कतीति द्वारं, कति कियन्तो नाम वर्त्तमानसमये सम्यक्त्वा दिसामायिकानां प्रतिपत्तारः प्राक् प्रतिपन्नाः प्रतिपतिता वा ?, तत्र प्रतिपद्यमानकेभ्यः प्राक्प्रतिपन्नाः प्रतिपतिताश्च सम्भवन्तीति तानेव प्रतिपादयन्नाह - सम्मत्तदेसविरआ पलिअस्स असंखभागमित्ताओ । सेढीअसंखभागो सुए सहस्सग्गसो विरई ॥ ८५० ॥ सम्यक्त्वदेशविरताः प्राणिनः सम्यक्त्वं देशविरतिं च प्रतिपद्यमानाः प्राणिनः पल्यस्य-क्षेत्रपल्योपमस्य असंख्य भागमात्राः, इयं भावना - क्षेत्रपल्योपमस्य असङ्ख्येये भागे यावन्तः प्रदेशास्तावन्त एकस्मिन् विवक्षिते समये उत्कर्षतः सम्य| क्त्वसामायिकं देशविरतिसामायिकं च प्रतिपद्यमानाः प्रत्येकं लभ्यन्ते, किन्तु देशविरतिसामायिकप्रतिपतृभ्यः सम्यक्त्व| प्रतिपत्तारोऽसङ्ख्येयगुणाः प्रतिपत्तव्याः, जघन्यतस्तूभयेऽपि एको द्वौ वेति, 'सेढीअसङ्ख भागो सुए' इति इह संवर्त्तितचतुरस्रीकृतस्य लोकस्य सप्तरज्जुप्रमाणा एकैकप्रदेशा पङ्क्तिः श्रेणिः, तस्या असङ्ख्येयभागः श्रुते - सामान्य श्रुतेऽक्षरात्मके प्रतिपत्तारो, लभ्यन्त इति शेषः, किमुक्तं भवति ? - यथोक्तरूपायाः श्रेणेः खल्यसङ्ख्येयतमे भागे यावन्तो नभःप्रदेशास्तावन्त एकस्मिन् विवक्षिते समये उत्कर्षतः सामान्य श्रुतेऽक्षरात्मके सम्यक्त्वमिथ्यात्वानुगते प्रतिपद्यमाना भवन्तीति, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy