________________
Jain Education International
नाम १ ठवणा २ दविए ३ ओहे ४ भव ५ तन्भवे ६ य भोगे ७ य । संजम ८ जस ९ कित्ती १० जीवियं च तं भण्णई दसहा ॥ १०५६ ॥
तज्जीवितं दशधा भण्यते, तद्यथा-नामजीवितं स्थापनाजीवितं द्रव्यजीवितमोघजीवितं भवजीवितं तद्भवजीवितं भोग| जीवितं संयमजीवितं यशोजीवितं कीर्त्तिजीवितं च एष गाथासमासार्थः ॥ व्यासार्थं तु भाष्यकारः स्वयमेव वक्ष्यति, तत्र नामस्थापने क्षुण्णत्वादनादृत्य शेषभेदव्याख्यानार्थमाह
दवे सचित्ताई आउयसद्द्वया भवे आहे । नेरइयाईण भवे तब्भव तत्थेव उप्पत्ती ॥ १९० ॥ (भा.) द्रव्ये - द्रव्यविषयं जीवितं, द्रव्यजीवितमित्यर्थः, सचित्तादि सचित्तमचित्तं मिश्रं वा, इह कारणे कार्योपचारात् येन | द्रव्येण सचित्ताचित्तमिश्रभेदेन पुत्रहिरण्योभयरूपेण यस्य यथा जीवितमायचं तस्य तथा तद् द्रव्यजीवितमुच्यते, उक्तं द्रव्यजीवितं, 'आउयसद्दवया भवे ओहे ओघजीवितं - सामान्यजीवितं आयुस्सद्रव्यता - आयुः प्रदेशकर्म्म तस्य द्रव्यैः सह( वर्त्तमानता आयुः सद्रव्यता, आयुःकर्मद्रव्यसहचारिता जीवस्येत्यर्थः, इदं च सामान्यजीवितं सकलसंसारिणामविशेषेण सर्वदा भावि, तत इदमङ्गीकृत्य यदि परं सिद्धा एव मृता, न पुनरन्ये केचन, उक्तमोधजीवितं, नैरयिकादीनां नैरयिकतिर्यइनरामराणां भव इति स्वस्वभवे स्थितिर्भवजीवितं, उक्तं भवजीवितं, 'तन्भव तत्थेव उववत्ती' तस्मिन् भवे भूयो जीवितं तद्भवजीवितं, किं तदित्याह - तत्रैवोत्पत्तिः तत्र - तस्मिन् अधिकृते तिर्यग्भवे मनुष्यभवे वा स्वकायस्थित्यनुसारेण भूयो भूय उत्पत्तिः, इदं चौदारिकशरीरिणामेवावसातव्यं, अन्यत्र निरन्तरं भूयो भूयस्तत्रैवात्पत्त्यभावात् । उक्तं तद्भवजीवितं ॥
For Private & Personal Use Only
www.jainelibrary.org