________________
तद्यथा- पूर्व श्रुतप्रत्याख्यानमपूर्व श्रुतप्रत्याख्यानं च तत्र पूर्व श्रुतप्रत्याख्यानं प्रत्याख्यानसंज्ञितं पूर्व, अपूर्वश्रुतप्रत्याख्यानं त्वातुरप्रत्याख्यानादि, तथा नोश्रुतप्रत्याख्यानं श्रुतप्रत्याख्यानादन्यत्, तच्च द्विधा 'मूले तह उत्तरगुणे य' मूलगुणप्रत्याख्यानं उत्तरगुणप्रत्याख्यानं च, मूलगुणप्रत्याख्यानं द्विभेदं तद्यथा - देशप्रत्याख्यानं सर्वप्रत्याख्यानं च, देशप्रत्याख्यानं श्रावकाणां, सर्वप्रत्याख्यानं संयतानां, सर्वप्रत्याख्यानेन चेहाधिकारः, सामायिकानन्तरं सर्व सावधं योगं ४ प्रत्याख्यामीत्युपादानात् इह वृद्धसम्प्रदायः - पच्चक्खाणे उदाहरणं, रायधूयाए पञ्च्चक्खायं वरिसं जाव मंसं न खइयवं, पारणगे अणेगाणं जीवाणं घातो कतो, साहू विहरंता आगया, मंसं न पडिग्गहियं, तीए भणियं किं तुज्झं अज्जवि वरिसं न पुजइ ?, साहूहिं भणियं जावजीवमहं मंसपञ्चक्खाणं, एत्थ धम्मकहा, सा संबुद्धा, पवइया, पुषं दवपञ्चक्खाणं, पच्छा भावपञ्चक्खाणं ॥ तदेवं व्याख्यातः प्रत्याख्यानमिति सूत्रावयवः, अधुना 'यावज्जीवयेति व्याख्यायते, तत्रादौ भावार्थमभिषित्सुराह
।। ५७९ ॥
भीआव ० मलयगि०
वृतौ सूत्रस्पर्शिका
Jain Education Inte
| जावदवधारणम्मि जीवणमवि पाणधारणे भणिअं । आ पाणधारणाओ पावनिवन्सी इहं अत्यो । १०५५ ।। यावदित्ययं शब्दोऽवधारणे वर्त्तते, जीवनमपि प्राणधारणे भणितं, 'जीव प्राणधारण' इति वचनात् ततो यावज्जीवया प्रत्याख्यामीति कोऽर्थः ? - आ प्राणधारणात् प्राणधारणं यावत् पापनिवृत्तिरिति, परतस्तु न विधिर्नापि प्रतिषेधः, विधावाशंसादोषप्रसङ्गात्, प्रतिषेधे तु सुरादिषूत्पन्नस्य भङ्गप्रसङ्गात्, इह च जीवनं जीव इति क्रियाशब्दो, न जीवतीति । | जीवः - आत्मा पदार्थः, जीवनं च प्राणधारणं, जीवनं जीवितं चेत्येकार्य, तत्र जीवितं दशधा, तथा चाह
For Private & Personal Use Only
जीवितनिक्षेपाः
॥ ५७९ ॥
www.jainelibrary.org