________________
ख्यानं भावप्रत्याख्यानं च, तत्र नामप्रत्याख्यानं प्रत्याख्यानमित्यभिधानमुकं, यदिवा यस्य प्रत्याख्यानमिति नाम स नाम-18 नामवतोरभेदोपचात् नामप्रत्याख्यानं, स्थापनाप्रत्याख्यानम् आगारक्खनिक्खेवो इति, आकारोऽनिक्षेपश्च, अक्षग्रहणमन्येषामपि निराकाराणामुपलक्षणं, इयमत्र भावना-चित्रकादौ प्रत्याख्यानं कुर्वतो या स्थापना सा प्रत्याख्यानप्रत्याख्यानवतोरभेदोपचारात् स्थापनाप्रत्याख्यानं आकारवत्, अक्षवराटकादौ स्थापना निराकारं स्थापनाप्रत्याख्यानं ॥ सम्प्रति द्रव्यप्रत्याख्यानादिप्रतिपादनार्थमाहदबम्मि निण्हगाई निविसयाई अहुति खित्तम्मि। भिक्खाईणमदाणे अइच्छ भावे पुणो दुविहं ॥१०५३ ॥ । द्रव्ये द्रव्यविषयं प्रत्याख्यानं निहवः, आदिशब्दात् द्रव्यस्य द्रव्ययोर्द्रव्याणां द्रव्यभूतस्य द्रव्यहेतोर्वा प्रत्याख्यानं, 'निविसयाई य होन्ति खित्तम्मि' निर्विषयादि भवति प्रत्याख्यानं क्षेत्रे, तत्र यो निर्विषय आदिष्टस्तस्य क्षेत्रप्रत्याख्यानं, आदिशन्दानगरादिप्रतिषिद्धपरिग्रहः, तथा भिक्षादीनां भिक्षणं भिक्षा-प्राभृतिका, आदिशब्दाद्वस्त्रादिपरिग्रहः, तेषामदाने अतिगच्छेति अदित्सेति वा वचनं, अतिगच्छप्रत्याख्यानमदित्साप्रत्याख्यानं वा, भावे भावविषयं पुनर्द्विविधं प्रत्याख्यानं, भावप्रत्याख्यानमित्यत्र चैवं व्युत्पत्तिः, भावस्य-सावद्ययोगस्य प्रत्याख्यानं भावप्रत्याख्यानं, भावतो वा शुभात परिणामातू प्रत्याख्यानं भाव एव वा सावद्ययोगविरतिलक्षणःप्रत्याख्यानंभावप्रत्याख्यानं ॥ सम्प्रति द्वैविध्यमेवोपदर्शयति
सुअ-नोमुअ सुअ दुविहं पुवमपुवं तु होइ नायबं । नोसुअपच्चक्वाणं मूले तह उत्तरगुणे य ॥ १०५४॥ दिविषं भावपत्याख्यान-श्रुतप्रत्याख्यानं नोश्रुतप्रत्याख्यानं च, 'सुय दुविहंति श्रुतप्रत्याख्यानं द्विविधं भवति ज्ञातव्यं,
Jain Education inte
For Private & Personal use only
w.jainelibrary.org