________________
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका 11402 11
Jain Education International
दवे मणवइकाए जोगा दवा दुहा उ भावंमि । जोगो सम्मत्ताई पसत्थ इयरो य विवरीओ ॥ १०५२ ॥ द्रव्य इति द्वारपरामर्शः 'मणवइकाए जोग्गा दवा' इति मनोवाक्काययोग्यानि द्रव्याणि द्रव्ययोगः, इयमत्र भावना - | जीवेनागृहीतानि गृहीतानि वा स्वव्यापाराप्रवृत्तानि द्रव्ययोग इति, द्रव्याणां वा हरीतक्यादीनां योगो द्रव्ययोगः, 'दुहा उ भावमिति द्विधैव तुशब्दस्य एवकारार्थत्यात् द्विप्रकार एव, भावे भावविषयो योगः, तद्यथा-प्रशस्तोऽप्रशस्तश्च तत्र प्रशस्तः सम्यक्त्वादिः, आदिशब्दात् ज्ञानचरणपरिग्रहः, प्रशस्तता चास्य युज्यते अनेनात्माऽपवर्गेणेत्यन्वर्थवलात्, इत- मिथ्यात्वादियोगो विपरीतः - अप्रशस्तः, युज्यतेऽनेनात्मा अष्टविधेन कर्म्मणेति व्युत्पत्तिभावात् । तदेवं सावद्ययोगमिति सूत्रावयवो व्यख्यातौ । सम्प्रति प्रत्याख्यामीत्यवयवप्रस्तावात् प्रत्याख्यानं निरूपणीयं, 'पञ्चक्खामी त्यस्य संस्कारः प्रत्याख्यामि प्रत्याचक्षे इति वा, तत्र प्रत्याख्यामीति कोऽर्थः ?, प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमि, तथा प्रत्याचक्षे इति कोऽर्थः १, प्रतिषेधस्यादरेणाभिधानं करोमि प्रत्याख्यानं, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरित्यर्थः, तनिक्षेपप्ररूपणार्थमाह
नामंठवणादविए स्वित्तमइच्छा अ भावओ तं च । नामाभिहाणमुत्तं ठेवणाऽऽगारक्खनिक्खेवो ' ॥ १ ॥ तच्च प्रत्याख्यानं षोढा, तद्यथा-नामप्रत्याख्यानं स्थापनाप्रत्याख्यानं द्रव्यप्रत्याख्यानं क्षेत्रप्रत्याख्यानं अदित्साप्रत्या१ गायेवं कचित् हारिमद्रीयादर्शऽपि, मूलस्थानं तु प्रत्याख्याननिर्युक्तौ, न श्रीहरिभद्रसूरिभिर्मतेयमत्र ।
For Private & Personal Use Only
प्रत्याख्याननिक्षेपाः
॥ ५७८ ॥
www.jainelibrary.org