SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ SACROSAROKARNactex - कदाऽसौ सामायिकस्य कारको भवतीति प्रश्नः, अत्र नयैर्निर्वचनं-उद्दिढे नेगम'त्ति उद्दिष्टे सति नैगमो मन्यते, इयमत्र भावना-सामान्यग्राहिणो नैगमनयस्य उद्दिष्टमात्र एवं सामायिके गुरुणा शिष्योऽनधीयानोऽपि तक्रियाननुष्ठायी सन् सामायिकस्य कर्ता, वनगमनपस्थितप्रस्थककर्तृवत् , यस्मात् उद्देशोऽपि सामायिककारणं, तस्मिंश्च कारणे कार्योपचारः, 'उवहिते संगहो य ववहारो'त्ति सङ्ग्रहो व्यवहारश्च उपस्थितः सन् कारको भवतीति, इयमत्र भावना-इह उद्देशानन्तरं वाचनाप्रार्थनाय यदा वन्दनं दत्त्वोपस्थितो भवति तदा प्रत्यासन्नतरकारणत्वात् सङ्ग्रहव्यवहारयोः कारक इति, ऋजुसूत्र आक्रमन् कारको भवतीति मन्यते, एतदुक्तं भवति-उद्देशानन्तरं गुरुपादमूले वन्दित्वोपस्थितः सामायिकं पठितुमारब्धः कारकः, वृद्धास्तु व्याचक्षते-न पठन्नेव, किन्तु समाप्ते कारक इति, सामायिकक्रियावान् प्रतिपद्यमानस्तदुपयोगरहितोऽपि कारकः, यस्मात् सामायिकार्थस्य सामायिकशब्दक्रिये असाधारणं कारणं, असाधारणकारणेन च व्यपदेश इति, 'सहु समत्तंमि उवउत्तो'त्ति, शब्दादयो मन्यन्ते-समावे सत्युपयुक्त एव कारको भवति, त्रयाणां शब्दादीनां नयानां शब्दक्रियावियुक्तोऽपि सामायिकोपयुक्तः कारकः, मनोज्ञतथापरिणामरूपत्वात् सामायिकत्य, कदा कारक इति गतं । सम्प्रति नयत इत्येतद्द्वारं विवरीषुराह आलोयणा १ य विणए २ खित्त ३ दिसाऽभिग्गहे ४ अ काले ५ य। रिक्ख ६ गुणसंपयाऽविअ ७ अभिवाहारे ८ अ अट्ठमए ॥१७८॥ (भा.) इहामिमुख्येन गुरोरात्मदोषप्रकाशनमालोचनानयः, तथा विनयः पदधावनादि क्षेत्रं-इक्षुक्षेत्रादि दिगभिग्रहो-वक्ष्यमा FACROSSASSASASSASTER Jain Educa t ion For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy