SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Jain Education International प्रभृतीनां व्यापारकरणमिति भावः, गुणकरणं पुनर्द्विविधं द्विप्रकारं कथमित्याह - ' तपः करणं' तपसः - अनशनादेर्बाह्याभ्यन्तरभेदभिन्नस्य करणं - कृतिस्तपःकरणं, संयमे च- संयमविषयं चाश्रवविरमणादि करणमिति भावः ॥ साम्प्रतं योजनाकरणं व्याचिरव्यासुराह - जुंजणकरणं तिविहं मण-वय-काए य मणसि सच्चाइ । सट्टाणि तेसि भेओ चउ चउहा सत्तहा चेव ॥ १०३८ ॥ योजनाकरणं त्रिविधं तद्यथा - 'मनोवाक्कायें' मनोवाक्कायविषयं, मनोविषयं वाग्विषयं कायविषयं चेत्यर्थः । तत्र मनसि सत्यादि योजना करणं, तद्यथा-सत्यमनोयोजना करणमसत्य मनोयोजनाकरणं सत्यमृषामनोयोजनाकरणं असत्यमृषामनोयोजनाकरणमिति, स्वस्थाने प्रत्येकं मनोवाक्कायलक्षणे तेषां योजनाकरणानां भेदो विभागो वक्तव्यः, तद्यथा-चतुर्धा चतुर्धा सप्तधा चेति, अयमत्र भावार्थ:- चतुर्भेदं सत्यमनोयोजनाकरणादि दर्शितं एवं वाग्योजनाकरणमपि सत्यवाग्योजनाकरणादिचतुर्भेदमव सातव्यं, काययोजनाकरणं सप्तभेदं, औदारिककाययोजनाकरणं औदारिकमिश्रकाययोजनाकरणं वैक्रियकाययोजना करणं वैक्रियमिश्रकाययोजना करणं आहारककाययोजनाकरणम। हारकमिश्र का ययोजनाकरणं कार्म्मणकाययोजनाकरणमिति ॥ इत्थं तावद् व्यावर्णितं यथोद्दिष्टं करणं, अधुना येनात्राधिकारस्तदुपदर्शनार्थमाह भावसु असद्दकरणे अहिगारो इत्थ होइ नायवो । नोसुअकरणे गुणजुंजणे अ जहसंभवं होइ ॥ १०३९ ॥ भावश्रुतशब्दकरणे प्रकाशपाठे भावश्रुते च अधिकारो भवति कर्त्तव्यः श्रुतसामायिकस्य, न तु चारित्रसामायिकस्य, तस्यांते यथासम्भवमभिधानात्, भावश्रुत सामायिकोपयोग एव, शब्दकरणमप्यत्र तच्छन्द विशिष्टः श्रुतभाव एव विव For Private & Personal Use Only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy