________________
SARAMANAXXXCOM
दीपक्षे प्रतिपदि निशि बवकरणं, द्वितीयायां दिवसे बालवं, रात्री कौलवं, तृतीयायाः दिवसे स्त्रीविलोचनं निशि गरादि चतु-16 ना दिवसे वणिजं निशि विष्टिरित्येवमादि स्वयं भावनीयं, उक्तंच-"किण्हनिसि तइअदसमीसत्तमिचाउद्दसीम अह विट्ठी।।
सुक्कचाउत्थिकारसिनिसि अट्ठमि पुण्णिमाइ दिवा.॥१॥ सुद्धस्स पडिवइनिसि पंचमिदिणि अट्ठमीइ राइम्मि । दिवसस्स बारसी पुण्णिमाइ रत्तिं बवं होइ ॥२॥ बहुलस्स चउत्थीए दिवा य तह सत्तमीज राइम्मि । इकारसीइ उ दिवा बवकरणंद
होइ नायचं ॥३॥” इत्यादि, अलं प्रसङ्गेन ॥ उक्तं कालकरणं, अधुना भावकरणमभिधीयते-तत्र भाव:-पर्यायः ६/तस्य जीवाजीवोपाधिभेदत्वात् तत्करणमप्योघतो द्विविधमेव, तथा चाहजीवमजीवे भावे अजीवकरणं तु तत्थ वण्णाई। जीवकरणं तु दुविहं सुअकरणं नो असुअकरणं ॥ १०३२॥
इह अलाक्षणिको मकारः प्राकृतत्वात् , भावे-भावविपयं करणं द्विविधं, तद्यथा-जीवे अजीवे च, तत्राल्पवतव्यत्वादजीवभावकरणमेवादावुपदर्शयति-अजीवकरणं तुशब्दस्य विशेषणार्थत्वात् अजीवभावकरणं परिगृह्यते, तत्र-तयोर्मध्ये वर्णादि, किमुक्तं भवति ?-यदिह परप्रयोगमन्तरेणाभ्रादेर्नानावर्णान्तरगमनं, आदिशब्दात् गन्धादिपरिग्रहः, एतत्सर्वमजीवभावकरणं, ननु च द्रव्यकरणमपि विश्रसाविषयमेवंप्रकारमेवोकं ततः कोऽत्र भावकरणे विशेषः !, उच्यते, इह भावाधिकारात् पर्यायप्राधान्यमाश्रीयते, तत्र तु द्रव्यप्राधान्यमित्यदोषः, जीवकरणं तु जीवभावकरणादि च जीवभावत्वात् द्विविधं श्रुतभावकरणं नोश्रुतभावकरणं च-गुणकरणादि, चशब्दस्य च व्यवहितः सम्बन्धः॥ सम्प्रति जीवभावकरणेना|धिकार इति, तदेव यथोद्दिष्ट तथैव च मेदतः प्रतिपिपादयिषराह
Jain Educatania
For Private & Personal Use Only
www.jainelibrary.org