________________
श्रीव मलयगि वृत्तौ सूत्रस्पर्शिका
॥५६५॥
SAGARCANCELECOS
स्थिराणि करणानि, उक्तंच-"सउणि चउप्पय नागं किंसुग्धं च करणं थिरं पाहा । बहुलचउद्दसिरति सउणी सेसं तियं क्षेत्रकाल
कमसो ॥१॥" एषाऽत्रोत्तरार्द्धभावना-कृष्णचतुर्दशीरात्रौ शकुनिः अमादिने चतुष्पदं अमारात्रौ नागकरणं, प्रतिपद्दिवा करणे किंस्तुघ्नं, तदनन्तरं रजनीदिनेषुववादीनि करणानि, तेषां च परिज्ञानोपायोऽयं-"पक्खतिहओ दुगुणिया दुरूवहीणा य सुक-18 पक्खंमि । सत्तहिए देवसियं तं चिय रूवाहियं रत्तिं ॥१॥” अस्या अक्षरगमनिका-कृष्णस्य शुक्लस्य वा प्रस्तुतपक्षस्य अतिकान्ता यास्तिथयः ता द्विगुणीक्रियन्ते, तत आगतराशेः सप्तभिर्भागो हियते, एवं कृते यत्करणमागच्छति तत्प्रस्तुततिथौ कृष्णपक्षे दैवसिकं विज्ञेयं, रूपाधिकं तु तदेव रात्रौ, तथाहि-कृष्णदशम्यां द्विगुणितायां विंशतिर्भवति, ततः सप्तभिर्भागे हते षट् शेषा जाताः, आगतं षष्ठं वणिजाभिधानं दैवसिकं करणं, रूपे त्वत्र प्रक्षिप्ते रात्रिगतं विष्ट्यभिधानं सप्तमं करणं लभ्यते, एवमन्यत्रापि कृष्णपक्षे, शुक्लपक्षे विशेषमाह-दुरूवहीणा य मुक्तपक्खम्मित्ति शुक्लपक्षे द्विगुणतिथिराशेडों पात्येते ततो देवसिकं करणमागच्छति, तदेव रूपाधिकं रात्रौ, सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वात् , प्राकृते हि विभक्तीनां व्यत्ययो भवति, यदाह पाणिनिः स्वप्राकृतलक्षणे-'व्यत्ययोऽप्यासा'मिति, रात्रिगतं करणं भवतीत्यर्थः, यथा शुक्चतुर्थ्या द्विगुणितायां अष्टौ भवन्ति, तेभ्यो द्वौ पात्येते, जाताः षट्, सप्तभिश्च भागो न पूर्यते, तत आगतं षष्ठं दैवसिकं वणिजाभिधानं करणं, रूपे तु प्रक्षिप्वे सप्तमं विध्यभिधानं रात्रिगतं करणं, एवमन्यत्रापि शुक्लपक्षे भावनीयं, इह लोकप्रसिद्धः कर-15॥५६५॥ णानयनोपायोऽपि विद्यते 'तिहि दुगुणी एक्किहिं उणी सत्तहिं हरणं सेसं करण मिति, अयमपि युक्तः, केवलमिह - मासतिथयो द्विगुणितव्याः, यहागच्छति तद्रात्रिगतं करणं, रूपे तु पातिते दिवसगतमिति, एवं च करणयेनापि शुकु-5
HEAXERCREAALER
Jain Education Inter
For Private & Personal use only
www.jainelibrary.org