SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ बा. सू. ९५ Jain Education Inter कस्य च सतो नित्यत्वात् करणत्वानुपपत्तिः, आह-यद्येवं किमिति निर्युतिकारेण निक्षेपगाथायामुपन्यस्तं ?, उच्यते- 'बंजणे'त्यादि, इह व्यञ्जनशब्देन क्षेत्रामिव्यञ्जकत्वात् पुद्गला गृह्यन्ते, पर्यायं कथञ्चित् प्रागवस्थापरित्यागेनावस्थान्तरापत्तिं, व्यञ्जनयोगतः पर्यायो व्यञ्जनपर्यायः तमापन्नं सत् तथापि क्षेत्रकरणमुच्यते, इयमत्र भावना - यद्यपि नाम क्षेत्रमकृत्रिमत्वात् करणायोगि तथापि घटपटादिसंयोगतो ये तचदत्रगाह्यमानतालक्षणाः पर्यायास्तेषां करणोपपत्तितः क्षेत्रस्यापि करणोपपत्तिः, पर्यायपर्यायवतोः कथञ्चिदमेदादिति, उपचारतो वा क्षेत्रस्य करणं, तथा चाह- 'इक्षुकरणादि' इक्षुक्षेत्रकरणमित्यादि, तथा च लोके वकारः - इक्षुक्षेत्रं मया कृतं शालिक्षेत्रं मया कृतमित्यादि, आदिशब्दादेव क्षेत्रे पुण्यादौ करणं क्षेत्रकरणं क्षेत्रे प्ररूप्यमाणं करणं क्षेत्रकरणमित्यादिपरिग्रहः ॥ उक्तं क्षेत्रकरणं, अधुना कालकरणं वक्तव्यं, तत्रेयं गाथा - कालेऽवि नत्थि करणं तहावि पुण वंजणप्पमाणेणं । बवबालवाइकरणेहिं णेगहा होइ ववहारो ॥। १०३१ ॥ कलनं कालः कलासमूहो वा कालः तस्मिन् कालेऽपि न केवलं क्षेत्रस्येत्यपिशब्दार्थः, नास्ति करणं-कृतिः, तस्य वर्त्तनादिरूपत्यात्, वर्त्तनादीनां च स्वयमेव भावात्, आह-यद्येवं किमिति निर्मुक्तिकृतोपन्यस्तं ?, उच्यते, तथापि व्यञ्जनप्रमाणेन भवतीति शेषः, इह व्यञ्जनशब्देन विवक्षया वर्चनाद्यभिव्यञ्जकत्वात् द्रव्याणि परिगृह्यन्ते, तत्प्रमाणेन तन्नीत्या तद्वलेन, तथाहि वर्चनादयस्वद्वतां कथञ्चिदभिन्ना एव, ततश्च तत्करणे तेषामपि करणमेवेति, यदिवा समयादिकालापेक्षयाऽपि व्यवहारनयादस्ति करणं, तथा चाह-यवबालवादिकरणैरनेकधा भवति व्यवहारः, उक्तं च- "बवं च वालवं चेव, कोलवं श्रीविठोयणं । गलादि वणियं चेव, विट्ठी हवइ खचमी ॥ १ ॥ " एतानि सप्त करणानि चलानि वर्त्तन्ते, चत्वारि तु शकुनिप्रभृतीनि For Private & Personal Use Only ww.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy