________________
श्रीआव० मलयगि०
वृत्तौ सूत्रस्पर्शिका
॥५६४ ॥
Jain Education Inter
'उभयं' सङ्घातपरिशाटन लक्षणं प्रवाहमङ्गीकृत्य सामान्येन 'अनाद्यनिधनं' अनाद्यपर्यवसितं केषांचित् पुनर्भव्यानामुभयं 'सान्तं' सपर्यवसानं, नतु सर्वेषां तथा अन्तरमनादिभावादत्यन्तावियोगतश्च नानयोरिति ॥ अथवेदमन्यत् जीव| प्रयोगनिर्वचितं चतुर्विधं करणं, तथा चाह
अहवा संघाओ साडणं च उभयं तहोभयनिसेहो । पड-संख-सगड-थूणा जीवपओगे जहासंखं ॥ १७४॥ (भा.) अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः, 'सङ्घात' इति सङ्घातकरणं शातनं च शातनकरणं च उभयं-संघातशातनकरणं च उभयनिषेधः- सङ्घातपरिशाटशून्यं, अमीषामेवोदाहरणान्युपदर्शयति-पटः शङ्खः शकटं स्थूणा 'जीवपयोगे' इति जीवप्रयोगकरणे तत्कायव्यापारमाश्रित्य यथासङ्ख्यमेतान्युदाहरणान्यवसेयानि, तथाहि - पटस्तंतुसङ्घातात्मकत्वात् सङ्घातकरणं, शङ्खस्त्वेकान्तशाटकरणात् शाटकरणं, शकटं तक्षणकीलिकादियोगात् तदुभयकरणं, स्थूणा पुनरूर्ध्वतिर्यक्करणयोगात् सङ्घातशाटविरहादुभयशून्यमिति । उक्तं जीवप्रयोगकरणं, आह-ननु 'जं जं निज्जीवाणं कीरइ जीवप्पयोगतो तं व'मित्यादिनाऽस्याजीवकरणतैव युक्तियुक्तेति, तदप्ययुक्तं, अभिप्रायापरिज्ञानात्, इह चादावेवाथवाशब्दप्रयोगः प्रकारान्तरमात्रदर्शनार्थ इत्युक्तं, ततोऽत्र व्युत्पत्तिमेदमात्रमाश्रीयते, जीवप्रयोगेण करणं जीवप्रयोगकरणं, ज्यायांश्चायमन्वर्थः इत्य ं प्रसङ्गेन । उक्तं द्रव्यकरणं । सम्प्रति क्षेत्रकरणस्यावसरः, तत्रेयं नियुक्तिगाथावित्तस्स नत्थि करणं आगासं जं अकित्तिमो भावो । वंजणपरिआवन्नं तहावि पुण उच्छुकरणाई ॥ १०३० ॥ इह क्षेत्रस्य नास्ति करणं-क्रियमाणता, यस्मात् क्षेत्रं खल्वाकाशं, आकाशं चाकृत्रिमो भावः - अकृतकः पदार्थः, अकृत
।
For Private & Personal Use Only
संघातादिकरणानि
॥ ५६४ ॥
www.jainelibrary.org