SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ "बंधणमाडुभयाणं जहन्नमन्तामाटी, अमीषां बन्धनशाटोभयानो जमानोऽन्तरं, सम्यग्दृष्टिकाल ५. ROCROSAROORKERCRESORDER: |'आहारक' इत्याहारकशरीरे 'सहातः' प्राथमिको ग्रहः 'परिशाटच' पर्यन्ते मोक्षश्च कालतः 'समयं कालविशेषमेकमधिकृत्य ममं भवति, क्रियाविशेषणमेतत् , कालोऽपि समयमेकं सङ्घातोऽपि समयमेकमित्यर्थः, उभयं-सङ्घातपरिशाटोभयं गृह्यते, तत् जघन्यत उत्कर्षतश्चान्तर्मुहूर्त भवति, अन्तर्मुहूर्तकालावस्थायित्वात् तस्य, उकृष्टान्तर्मुहूर्तात् जघन्यं लघुतरं वेदितव्यं । साम्प्रतमाहारकमेवाधिकृत्य सङ्घाताद्यन्तरमभिधातुकाम आह-. बंधणमाडुभयाणं जहन्नमन्तोमुहत्तमन्तरणं । उक्कोसेण अवद्धं पुग्गलपरिअह देसूणं ॥ १७१॥ (भा.) | 'बन्धन'सङ्घातः, शाटः-शाट एव, उभयं सङ्घातशाटी, अमीषां बन्धनशाटोभयानां जघन्यं-सर्वस्तोकमन्तरणं-विरहका-१ लोऽन्तर्मुहूर्त, सकृत्परित्यागानन्तरमन्तर्मुहूर्तेनैव तदारम्भात् , उत्कर्षेणार्द्धपुद्गलपरावर्तों देशोनोऽन्तरं, सम्यग्दृष्टिकालस्योत्कृष्टस्याप्येतावत्परिमाणत्वात् , एतच्च यश्चतुर्दशपूर्वधर आहारकशरीरं कृत्वा प्रमादात् प्रतिपतितो वनस्पत्यादिषु यथोक्तं कालं स्थित्वा पुनरपि चतुर्दशपूर्वधरत्वमवाप्याहारकशरीरं करोति तदपेक्षया द्रष्टव्यं ॥ उक्ता आहारकशरीरम|धिकृत्य सङ्घातादिवक्तव्यता, सम्प्रति तैजसकार्मणे अधिकृत्याहतयाकम्माणं पुण संताणाऽणाइओ न संघाओ। भवाण हुज्ज साडो सेलेसीचरिमसमयम्मि ॥ १७२ ॥ (भा.) तैजसकार्मणयोः पुनद्वयोः शरीरयोः सन्तानानादितः कारणात् न सङ्घातो-न तत्पथमतया ग्रहणं, प्रागेव सिद्धिहै प्रसङ्गात्, भव्यानां तु केषाञ्चित् शाटः, कदेत्यत आह-शैलेशीचरमसमये, स चैकसामयिक एव ॥ उभयं अणाइनिहणं संतं भवाण हुज्ज केसिंचि । अंतरमणाइभावा अचंतऽविओगओ नेसिं ॥१७३॥ (भा.) . Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy