SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ CANCARRORAKk औदारिकसर्वपरिशादं करोति, इहापि संयतमनुष्यभवचरमसमये सर्वपरिशाटविवक्षा व्यवहारनयमताश्रयणात्, परमवथमसमये निश्चयनयमतापेक्षया, ततो यथोक्तमन्तरपरिमाणं भवति, उक्तं च-"खुड्डागभषग्गहणं जहन्नमुकोसयं च तेचीसं। तं सागरोवमाई संपुन्ना पुषकोडी य ॥१॥" अन्यथा समयत्रयहीनत्रयस्त्रिंशत्सागरोपमपूर्वकोटिप्रमाणताऽवसेया, यावदेवं व्यारव्यानुरोधेन व्याख्या कृता, तत्त्वतः पुनरेवं व्याख्या-तिसमयहीणं खुई होइ भवं सबबंधसाडाणं ।' सर्वबन्धख सर्वशाटस्य च यथाक्रम जघन्योऽन्तरकालः क्षुल्लकभवग्रहणं 'त्रिसमयहीन' मिति त्रिभिः-अर्थात् समयः समयेन च हीनं त्रिसमयहीनं क्षुल्लकभवग्रहणं सर्वसङ्घातस्य जघन्योऽन्तरकालः, समयहीनं सर्वपरिशाटस्येति भावः, 'उकोसें' त्यादि, सर्वस-18 वातस्योत्कृष्टोऽन्तरकालः पूर्वकोटी समय उदधयश्च-सागरोपमाणि त्रयस्त्रिंशत्, सर्वपरिशाटस्योत्कृष्टोऽन्तरकालः पूर्वकोटी समयेन हीना उदधयः समयोदधयः, गुडधाना इत्यादाविव मध्यपदलोपी समासः, समयेन हीनानि सागरोपमाणि त्रयस्त्रिंशद्, भावना सर्वाऽपि प्रागुक्तव द्रष्टव्या । सम्प्रति सङ्घातपरिशाटान्तरमुभयरूपमपि अभिधिरसुराह- .. | अंतरमेगं समयं जहन्नमोरालगहणसाडस्स । सतिसमया उक्कोसं तित्तीसं सागरा हुंति ॥१६६ ॥ (मा.) | 'अन्तरं' अन्तरालं जघन्यं-सर्वस्तोकं एक समयमादारिकस्य 'ग्रहणशाटस्य' ग्रहणं च शाटश्च ग्रहणशाटं तस्य, सङ्घातपरिशाटस्येत्यर्थः, तथाहि-यदा औदारिकशरीरी आयुःपर्यन्तं यावत् सङ्घातपरिशाटोभयं कृत्वाऽग्रेतनभवेऽविग्रहेणोत्पघोदारिकस्यैव सङ्घातं कृत्वा पुनरपि तदुभयमारभते तदा एकसमयो जघन्यमुभयान्तरमिति, उत्कृष्टमन्तरं त्रयखिंशत्सागरोपमाणि सत्रिसमयानि, तथाहि-यथा कश्चित् मनुष्यादिः स्वभवचरमसमये सङ्घातपरिशाटोभयं कृत्वाऽनुत्तरसुरेष्वप्रति CREASCCC Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy