SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ द्र सङ्घातपरिशाटोमयकालः, ततस्तेन सङ्घातनासमयेन ऊनं पल्योपमत्रयमिति, ननु यथा सङ्घातसमयेनोनं पल्योपमत्रयं मतं तथा परिझाटसमयेनापि, ततो द्विसमयहीनं पस्योपमत्रयं प्राप्नोति, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात्, निश्चयतो हि भवस्य चरमेऽपि समये सङ्घातपरिशाटावेव, परिशाटस्तु परभवप्रथमसमयेन, अत एकेन समयेनोनता, न द्वाभ्यामिति, उक्तं च-"उकोसो समऊणो जो सो संघयणासमयहीणो। किह न दुसमयविहीणो साडणसमएऽवणीयंमि ? ॥१॥ भण्णइ भवचरमंमिवि समए संघायसाडणा चेव । परभवसमए साडणमतो तदूणो न कालोत्ति ॥२॥" एवमौदारिके जघन्येतरमेदः सङ्घातपरिशाटकाल उक्तः, सङ्घातपरिशाटयोस्त्वेक एव समयः, द्वितीयस्थासम्भवात् , अधुना सङ्घातादिविरहो जघन्येतरमेदोऽभिधीयते, तथा चाह तिसमयहीणं खुइं होइ भवं सबवंध-साडाणं । उक्कोस पुवकोडी समयो उदही अतित्तीसं ॥ १६५ ॥ 31 त्रिसमयहीनं क्षुल्लं, 'भवं' ति संपूर्ण क्षुल्लकभवग्रहणं, यथाक्रम सर्वबन्धशाटयोरन्तरकालः, किमुक्तं भवति ?-सर्वसङ्घा तकरणस्य जघन्योऽन्तरकालनिसमयहीनं क्षुल्लकभवग्रहणं,सम्पूर्ण तु क्षुलकभवग्रहणं परिशाटस्येति, कथं सर्वसङ्घातस्य जघन्यान्तरकालखिसमयहीनं क्षुल्लकभवग्रहणं !, उच्यते, यदा कश्चिदेकेन्द्रियादिर्जीवो मृतः सन् समयद्वयं विग्रहे कृत्वा क्षुल्ल. कभवग्रहणायुकेषु पृथिव्यादिषूत्पन्नः तृतीयसमये औदारिकस्य सङ्घातं कृतवान् तदा औदारिकशरीरमधिकृत्य सङ्घातस्य त्रिसमयन्यूनथुलकभवग्रहणप्रमाणो जघन्योऽन्तरकालः, उक्तं च-"संघायंतरकालो जहन्नओ खुडगं तिसमऊणं । दो। विग्गहमि समया तइओ संघायणासमो॥१॥ तेहूणं खुडगभवं धरि परभवमविग्गहेणेव । गंतूण पढमसमये संघातयतो Jain Education Interde For Private & Personal use only R w.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy