SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ श्रीआव० मलयगि वृत्तौ सूत्रस्पर्शिका ॥५६॥ RREKORECARRRRRRREKAR तप्तायां वापिकायां सम्मानकप्रक्षेपात् स पूपः प्रथमसमये एव एकान्तेन स्नेहपुद्गलानां ग्रहणमेव करोति, न त्यागम् , संघातादिन अभावात् , द्वितीयादिषु तु समयेषु ग्रहणमोक्षौ, तथाविधसामर्थ्ययुक्तत्वात्, पुद्गलानां च सङ्घातभेदधर्मत्वात् , एवं करणानि जीवोऽपि तत्प्रथमतयोत्पद्यमानः सन् आद्यसमये औदारिकशरीरप्रायोग्याणां पुद्गलानां ग्रहणमेव करोति, न तु मुश्चत्यभावात् , द्वितीयादि तु समयेषु ग्रहणमोक्षौ, युक्तिरत्र पूर्ववत्, ततः सङ्घातमेकसामयिकमिति, सङ्घातमित्यत्र नपुंसकता तथा दर्शनात् , तथैव परिशाटनं-परिशाटनाकरणमेकसमयमिति वर्त्तते, सर्वपरिशाटनस्याप्येकसामयिकस्वादेवेति, 'औदारिक' इत्यौदारिकशरीरे 'संघायणपरिसाडण ति संघातनपरिशाटनकरणं तु क्षुल्लकभवग्रहणं त्रिसमयोनं, तत् पुनरेवं भावनीयं-जघन्यकालस्य प्रतिपादयितुमभिप्रेतत्वात् विग्रहेणोत्पाद्यते, ततश्च द्वौ विग्रहसमयावेकः सङ्घातसमय इति तैयूनं, तथा चोकम्-"दो विग्गहंमि समया समयो संघायणाएँ तेहूणं । खुड्डागभवग्गहणं सबजहन्नो ठिईकालो ॥१॥" इहच सर्वजघन्यमायुष्कं क्षुल्लकभवग्रहणं, प्राणापानकालस्यैकस्य सप्तदशभाग इति, उक्तं च भाष्यकारेण-"खुड्डागभव-18 ग्गहणा सत्तरस हवंति आणपाचूंमि' ति गाथार्थः॥ | एयं जहन्नमुक्कोसयं तु पलिअत्तिअंतु समऊणं । विरहो अंतरकालो ओराले तस्सिमो होइ ॥१६४॥ (भा.) | इदं जघन्यं सङ्घातादिकालमानम् , उत्कृष्टं तु सङ्घातपरिशाटनकरणकालमानमौदारिके-औदारिकमाश्रित्य पल्यो-18 पमत्रिकं समयोनम् , त्याहि-इहोत्कृष्टकालस्य प्रतिपाद्यत्वात् अयमविग्रहसमापन्नो गृह्यते, स इहभवात्परभवं गच्छन् इहभवशरीरशादं कृत्वा परभवायुषः त्रिपल्योपमकालस्य प्रथमसमयेन शरीरसङ्घातं करोति, ततो द्वितीयसमयादारभ्य ACCASANAGAR Jain Education inte For Private & Personal use only Luvw.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy