SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ SEARCARRAASAR शीर्षमुर उदरं पृष्ठं द्वौ बाहू द्वौ च उरू इत्यष्टावङ्गानि, अङ्गुल्यादीनि उपाङ्गानि, शेषाणि करपादादीनि अतोपाङ्गानि ॥ किञ्च केसाईउवरयणं उरालविउवि उत्तरं करणं । ओरालिप विसेसो कण्याइणहसंठवणं ॥१६१ ॥ (भा.) ___ केशाद्युपरचनं-केशादिनिर्मापणसंस्कारी आदिशब्दान्नखदन्तरागादिपरिग्रहः, औदारिकवक्रिययोरुत्तरकरणं, यथासहाम्भवं चेह योजना कार्या, तथा औदारिके उत्तरकरणे विशेषः, कर्णादिविनष्टसंस्थापनं, न चेदमुत्तरकरणं वैक्रियादौ सम्भ वति, विनाशाभावात् , विनष्टस्य च सर्वथा विनाशेन संस्थापनाऽभावात्, केशाद्युपरचनरूपं तूत्तरकरणमाहारके न सम्भवति, प्रयोजनाभावात् , ततो गमनागमनादिरूपं तत्तत्रावसातव्यम्, अथवेदमन्यादृक् त्रिविधं करणम् , तद्यथा-सङ्घात करणं परिशाटकरणं सङ्घातपरिशाटकरणं च, तत्राद्यानां त्रयाणां शरीराणां तैजसकार्मणरहितानां त्रिविधमप्यस्ति, दाद्वयोस्तु चरमद्वयमेव ॥ तथा चाह आइल्लाणं तिण्हं संघाओ साडणं तदुभयं च । तेआकम्मे संघायसाडणं साडणा वाऽवि ॥ १६२॥ (भा.) __ आद्यानां त्रयाणाम्-औदारिकवैक्रियाहारकरूपाणां शरीराणां सङ्घातः शाटनं तदुभयं च-सङ्घातपरिशाटौ, तैजसकार्मणे च सङ्घातपरिशाटौ शाटनं वापि, न तुसङ्घातोऽनादित्वात्। साम्प्रतमोदारिकमधिकृत्य सङ्घातादिकालमानमभिधित्सुराहसंघायमेगसमयं तहेव परिसाडणं उरालम्मि । संघायणपरिसाडो खुट्टागभवं तिसमऊणं ॥१६३ ।। (भा.) सङ्घातमिति सर्वसङ्घातकरणमेकसमयं भवति, एकान्तादानस्य एकसामयिकत्वात् , अत्रघृतपूपो दृष्टान्तः, यथा घृतपूर्ण Jain Education Interior For Private & Personal use only www.jainelibrary.org
SR No.600045
Book TitleAvashyakasutram Part_3
Original Sutra AuthorBhadrabahuswami, Malaygiri
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages312
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy